________________ __145 गाथा-१७-२० 1 १-साधुधर्मविधि-पञ्चाशकम् तत्थ पुण 'संठिताणं, आणाआराहणा ससत्तीए / अविगलमेयं जायति, बज्झाभावेऽवि भावेणं // 511 // 11/17 तत्र पुनर्गुरुकुले [संस्थितानाम्], तिष्ठतां [पाठान्तरे] वसतां नाम, आज्ञाराधनाद्, आज्ञासत्याकरणात् स्वशक्त्या स्वसामर्थ्येन, अविकलं सम्पूर्णम् एतच्चरणं जायते सम्भवति [बाह्याभावे] बाह्याज्ञाभावेऽप्याज्ञोक्तबाह्यक्रियाभावेऽपि भावेन भावमाश्रित्य द्रव्यतोऽसम्पूर्णतायामपि भावतः परिपूर्णमेव // 17 / / (1. वसतां अटी.) कुलवहुणायादीया, एत्तो च्चिय एत्थ दंसिया बहुगा / एत्थेव संठियाणं, खंतादीणं पि सिद्धि त्ति // 512 // 11/18 कुलवधूज्ञातादीन्यत एव गुरुकुलवासप्राधान्यादेव अत्राधिकारे शास्त्रे दर्शितानि भूयांसि। यथा कुलवधूः कुले वसन्ती शीलरक्षाविभवाधिपत्यादीनां गुणादीनां भाजनम्, एवं साधुरपि गुरूकुले वसन् ज्ञानादीनां भाजनं भवति / यथा स राजानुजीवी राजकुले तत्पश्यतो वसन् राजकृतप्रसादानां भाजनमेवं साधुरपि / यथा च कलाचार्योपासक(न)प्रवृत्तस्तत्कृतानां कलापरिज्ञानादीनाम्, अत्रैव गुरुकुले सम्यग्व्यवस्थितानां संस्थितानां साधुनां क्षान्त्यादीनामपि यतिधर्मगुणानां सिद्धिरित्यभिनिष्पत्तिर्भवति // 18 // धर्मः पुनरेतस्येत्युक्तं तत्प्रदर्शनायाह - खंती य मद्दवऽज्जव, मुत्ती तव संजमे य बोद्धव्वे / सच्चं सोयं आकिंचणं च बंभं च जतिधम्मो // 513 // 11/19 क्षमणं सहनं क्षान्तिः क्रोधनिग्रहः / च शब्द मार्दवादिषु लुप्तविभक्तिकेषु योजनीयः / मृदुसत्त्वः तथा विनीतस्तद् भावो मार्दवं मानप्रतिपक्षः / ऋजुरवक्र: स्वच्छाशयस्तद्भाव आर्जवं मायानिग्रहः / मोचनं मुक्तिरलोभता लभ्यमानस्यापि परित्यागो लोभप्रतिपक्षः / तपः समयप्रसिद्धमनशनप्रायश्चित्तादि बाह्याभ्यन्तरभेदम् / संयमश्च मनोवाक्कायसंयमरूपस्त्रिविधो बोद्धव्योऽवसेयः / सत्यमविसंवादं मनोवाक्कायर्जुतारूपम् चतुर्विधं शौचं बाह्याभ्यन्तरभेदम् द्विविधम् / आकिञ्चन्यं चाकिञ्चनभावरूपं पञ्चविषयविरक्ततास्वभावम् / ब्रह्म च ब्रह्मचर्यं च / यतिधर्मः साधुधर्मः // 19 // गुरुकुलवासच्चाए, णेयाणं हंदि सुपरिसुद्धि त्ति / सम्मं णिरूवियव्वं, एयं सति णिउणबुद्धीए // 514 // 11/20 गुरुकुलवासत्यागे नैतेषां क्षान्त्यादीनां हन्त सुपरिशुद्धिरिति दोषरहितता बहिरन्तर्दोष