________________ || // एकादशं साधुधर्मविधि-पञ्चाशकम् // एवं तावदादित आरभ्य दशभिः प्रकरणैः श्रावकधर्म उक्तः / साम्प्रतं साधुधर्माचिख्यासयाहनमिऊण वद्धमाणं, मोक्खफलं परममंगलं सम्मं / वोच्छामि साहुधम्मं, समासओ भावसारं तु // 495 // 11/1 नत्वा वर्धमानं चरमतीर्थङ्करम् / मोक्षः फलमस्येति मोक्षफलं परममङ्गलं प्रधानमङ्गलस्वभावम्, ज्ञानादीनां भावमङ्गलत्वात् / सम्यक् प्रशस्तं प्रवक्ष्यामि साधुधर्मं समासतो भावसारं तु भावप्रधानमेव ऐदम्पर्यसारं समासाभिधानं प्रकरणस्य प्रयोजनम्, सामान्येन तु साधुधर्मोऽभिहित एव, विस्तरतस्तत्र, विस्तरभीरवः केचित्, केचिदैदंपर्यानभिज्ञाः, तदनुग्रहार्थमिदं प्रस्तुतम् // 1 // तत्र कः साधुर्यस्यायं धर्मोऽभिधीयत इत्याह - चारित्तजुओ साहू, तं दुविहं देससव्वभेएण / देसचरित्ते न तओ, इयरम्मि उ पंचहा तं च // 496 // 11/2 चारित्रमाचारः तद्युक्तः साधुः तच्चारित्रं द्विविधं द्विप्रकारम् देशसर्वभेदेन देशसर्वचारित्रविशेषेण देशचारित्रेऽनिन्दितक्रियाहेतौ श्रावकयोग्ये, न तको न स साधुर्भवति / इतरस्मिस्तु इतरस्मिन्नेव सर्वचारित्रे तथाविधक्रियाकारणभूतभावे वर्तमानस्तको भवति / पञ्चधा तच्च सर्वचारित्रम् // 2 // पञ्चविधत्वमेवाह - सामाइयत्थ पढम, छेओवट्ठावणं भवे बीयं / परिहारविसुद्धीयं सुहुमं, तह संपरायं च // 497 // 11/3 तत्तो य अहक्खायं, खायं सव्वम्मि जीवलोगम्मि / जं चरिऊण सुविहिया, वच्चंति अणुत्तरं मोक्खं // 498 // 11/4 जुग्गं। सामायिकमथ प्रथमं / प्राकृतत्वादथशब्दस्याकारलोपो निपात एव वा / छेदोपस्था[ प नं भवेद् द्वितीयं सातिचारनिरतिचारमहाव्रतारोपणरूपम् / परिहारेण तपसा समयोक्तेन विशुद्धाः साधवस्तेषामिदं, ग्रहादेराकृतिगणत्वाद् परिहारविशुद्धीयम् / सूक्ष्म तथा सम्परायं च सूक्ष्मसम्परायमथवा प्राक्तनगुणस्थानापेक्षया सूक्ष्माध्यवसायरूपत्वात् सूक्ष्मं तथा कृत्तिगतः सम्परायः