________________ 140 १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-४८-५० ध्यवसायेन, गुरुणा ईषद्दत्तायामपि प्रव्रज्यायां यतः प्रतिषेधो वर्णितोऽत्र सूत्रे // 47|| एतदेव व्यक्तीकर्तुमाह - पव्वाविओ सिय त्ति य, मुंडावेउमिच्चाइ जं भणियं / सव्वं च इमं सम्म, तप्परिणामे हवति पायं // 492 // 10/48 प्रव्राजितोऽभ्युपगमितो धर्ममिति गम्यते, स्यादिति च कथञ्चित् मुण्डयितुमित्यादि यद् भणितं [कल्पभाष्ये अटी.] विधिप्रतिषेधाभ्यां सर्वं चेदं सूत्रोक्तं विधिप्रतिषेधरूपं सम्यग्न्यायेन तत्परिणामे प्रव्राजनीयपरिणामे योगे(ग्ये)तररूपे भवति प्रायो नान्यथा परिणाम एव प्रधानं कारणं प्रव्राजनमुण्डनशिक्षादिषु तदानुरूप्येण तत्प्रवृत्तेः।।४८॥ जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं / जम्हा असुहो कालो, दुरणुचरो संजमो एत्थ // 493 // 10/49 युक्तः पुनरेषक्रमः आनुपूर्वीरूप: ओघेन साम्येन योऽभिहितः / साम्प्रतमिदानींतनकाले विशेषेणातिशयेन यस्मादशुभः कालो दुःषमाख्यो दुरनुचरः संयमोऽत्रेदानीं वर्तते, तस्मादुत्तरोत्तरगुणानुपूर्वी समाश्रयणं विधेयम् // 49 / / प्रकृतानुपूर्वीसमर्थनार्यवाह - तंतंतरेसु वि 'इमो, आसमभेओ पसिद्धओ चेव / ता इय इह जइयव्वं, भवविरहं इच्छमाणेहिं // 494 // 10/50 तन्त्रान्तरेष्वपि शास्त्रान्तरेष्वपीतो जैनशास्त्रात्सर्वनयसमूहात्मकात् ['इमो' अयं अनन्तरोक्तः...... इओ ‘इति पाठान्तरं, तत्र इतोऽशुभकाल-दुरनुचरसंयमलक्षणाद्..... अथवा इतो जैनप्रवचनात्तन्त्रान्तरेष्विति, अटी.] आश्रमभेदो ब्रह्मचारिगृहस्थादिरूपः प्रसिद्ध एव, न तु साध्यो विप्रतिपत्त्यभावात् / तत्तस्माद् इति पूर्वोक्तन्यायेन इह प्रव्रज्यायां यतितव्यं प्रयत्नः करणीयः प्रथमप्रतिपत्तावपि न यथाकथञ्चित्सा अङ्गीकर्तव्या, भवविरहमिच्छद्भिः संसारवियोगमभिलषद्भिः पुंभिः // 50 // (1. इओ अटी.) // श्रावकधर्मविधिप्रकरणं पञ्चाशकं दशमं समाप्तम् // [ उपासकप्रतिमाप्रकरणं] //