________________ गाथा-४४-४७ १०-उपासकप्रतिमा-पञ्चाशकम 139 भवनिर्वेदात् संसारनिर्वेदाद्, यतो यस्मान् मोक्षे रागान्मोक्षाभिलाषात् ज्ञानपूर्वात् सम्यग्ज्ञानमूलात् शुद्धाशयस्य शुद्धाध्यवसायस्य एषा प्रव्रज्या ओघेनापि सामान्येनापि वर्णिता कथिता समये सिद्धान्ते // 43 / / एतदेवाह - तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो / सयणे य जणे य समो, समो य माणावमाणेसु // 488 // 10/44 ततः श्रमणो यदि सुमना वैमनस्यविरहितः कथञ्चित्सौमनस्येऽपि भावेन च यदि न भवति पापमनाः सावधप्रवृत्तमना इत्यर्थः / स्वजने च जने च समः स्वजनपरजनयोस्तुल्यः समश्च मानावमानयोः पूजावज्ञयोस्तुल्यचित्तः // 44 // ननु च न सर्वस्यापि प्रतिमाक्रमप्रतिपत्त्या सर्वविरतिः, तत्कथमेतदुच्यत इत्याह - ता कम्मखओवसमा, जो एयपगारमंतरेणावि / जायति जहोइयगुणो, तस्सवि एसा तहा णेया // 489 // 10/45 तत्तस्मात् कर्मक्षयोपशमाद्धेतोर्य एतत्प्रकारमन्तरेणापि प्रतिमाविधानमन्तरेणापि, जायते यथोदितगुणः शास्त्रोक्तगुणः तस्यापि [प्राणिनः, अटी.] प्रतिमाव्यतिरेकवृत्तेः एषा प्रव्रज्या, तथा विशिष्ट परिणामोत्कर्षेण प्रतिमाप्रतिपत्तुरिव ज्ञेया / योऽपि संहननादिविधौ बाल्याच्छास्त्रोक्तप्रतिमाक्रियापरिपालनेऽसमर्थस्तस्यापि सर्वविरतिप्रतिपत्तौ तद्वदिवाध्यवसायविशुद्धिविज्ञेया देशविरत्यध्यवसायस्थानानन्तरवर्तित्वात् सर्वविरत्यध्यवसायस्थानानाम् // 45 // एत्तो च्चिय पुच्छादिसु, हंदि विसुद्धस्स सति पयत्तेणं / दायव्वा गीतेणं, भणियमिणं सव्वदंसीहिं // 490 // 10/46 अत एव हेतोविसुद्ध्युत्कर्षाद् वा पृच्छादिषु, आदिशब्दाद्धर्माभिप्रायपरिग्रहः / हन्त विशुद्धस्याधिकारिणो नान्यस्य, सदा सर्वकालं प्रयत्नेन शास्त्रोक्तेन निमित्तशुद्धयादिना, दातव्या प्रव्रज्या गीतेन गीतार्थेन गुरुणा भणितमिदं प्रतिपादितमेत् सर्वदर्शिभिः सर्वज्ञैः // 46 // अस्यैवार्थस्याभ्युच्चयमाह - तह तम्मि तम्मि जोए, सुत्तुवओगपरिसुद्धभावेण / दरदिण्णाए वि जओ, पडिसेहो वण्णिओ एत्थ // 491 // 10/47 तथा तस्मिन् तस्मिन् योगे प्रव्रज्याव्यापारे सूत्रोपयोगपरिशुद्धभावनागमसमवधानविवक्ता