SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 138 १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-३९-४३ प्रायेण प्राक्प्रतिमास्वपि चिरजीविनामेष क्रमः सम्भवतीति भावः // 38 // एवं प्रतिमां निर्दिश्य तदनन्तरं विधिमाह - भावेऊणऽत्ताणं, उवेइ पव्वज्जमेव सो पच्छा / अहवा गिहत्थभावं, उचियत्तं अप्पणो णाउं॥४८३॥ 10/39 भावयित्वात्मानं प्रतिमानुष्ठानेन उपैत्युपगच्छति प्रव्रज्यामेव यतित्वमेव श्रमणभूतः स [श्रावकः, अटी.] पश्चात्प्रतिमोत्तरकालम् / अथवा गृहस्थभावं गृहस्थत्वं प्रतिमानुष्ठानविश्रान्त्या उचितत्वं योग्यत्वमात्मनो ज्ञात्वा // 39 // गहणं पव्वज्जाए, जओ अजोगाण णियमतोऽणत्थो / तो तुल्लिऊणऽप्पाणं, धीरा एयं पवज्जंति // 484 // 10/40 ग्रहणं स्वीकारः, प्रव्रज्यायाः लोकधर्मेभ्यो लोकोत्तरधर्मगमनरूपायाः, यतो यस्माद्, अयोग्यानामनुचितानाम्, नियमतोऽनर्थो नियमादनर्थहेतुः, तत् तस्मात् तुलयित्वा परीक्ष्य, आत्मानं धीराः स्थिरा एतां प्रव्रज्यां प्रतिपद्यन्ते स्वीकुर्वन्ति // 40 // तुलणा इमेण विहिणा, एत्तीए हन्दि नियमतो णेया / नो देसविरइकंडगपत्तीए विणा जमेस त्ति // 485 // 10/41 तुलनाऽऽत्मपरीक्षा अनेन विधिना प्रतिमागतेन, एतस्याः प्रव्रज्याया हन्त नियमतो ज्ञेया। नो नैव देशविरतिकण्डकप्राप्त्या विना यद् यस्माद् एषैति प्रव्रज्या // 41 / / तीए य अविगलाए, बज्झा चेट्ठा जहोदिया पायं / होति णवरं विसेसा, कत्थति लक्खिज्जए न तहा // 486 // 10/42 तस्यां च प्रव्रज्यायाम् अविकलायां भावतः सम्पूर्णायां बाह्या चेष्टा यथोदिता यथोक्ता प्रायो बाहुल्येन भवति जायते / नवरं केवलम् / विशेषादपवादात् क्वचिद्देशकालादौ लक्ष्यते। न तथा प्रागिव बाह्या क्रिया न दिश्यत इत्यर्थः / तस्यामदृश्यमानायामप्यविकलैव प्रव्रज्या पुष्टालम्बनादन्यथाऽप्रवृत्तेर्न, क्रियान्यथात्वेऽपि च परिणामो नान्यथा भवति / तस्यैव च तत्त्वतः प्रव्रज्यारूपत्वात्, तदङ्गभावेन क्रियाविधानात्, परिणामप्रेरिता हि क्रिया परमार्थेन / न च कार्याभावात् कारणाभावः। धूमवल्यादिषु तथाप्रतीतेः सकललोकपरीक्षकन्यायसिद्धत्वात् // 42 // कथं पुनरनर्थहेतुः प्रव्रज्याग्रहणमयोग्यानामित्याह - भवणिव्वेयाउ जतो, मोक्खे रागाउ णाणपुव्वाओ / सुद्धासयस्स एसा, ओहेण वि वणिया समए // 487 // 10/43
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy