________________ गाथा-३५-३८ १०-उपासकप्रतिमा-पञ्चाशकम 137 यतिपर्युपासनपरः साधुसेवनपरः, सूक्ष्मपदार्थेषु बन्ध-मोक्षादिषु नितान्तलिप्सो नित्यतत्परः पूर्वोदितगुणयुक्तः प्रागभिहितगुणान्वितो दश मासान्, यावदिति गम्यते, 'कालमासेन कालपरिमाण विशेषरूपेण समयप्रसिद्ध्या चैतदभिहितं- 'दुविहा मासा पण्णत्ता धण्णमासा य कालमासा य॥३४॥ (1. कालमाणेणं कालमानेन - कालप्रमाणापेक्षयेत्यर्थः / अ. टी.) उक्ता दशमी, एकादशमीमाह - खुरमुंडो लोएण व, रयहरणं उग्गहं व घेत्तूण / समणब्भूओ विहरइ, धम्मं काएण फासंतो // 479 // 10/35 क्षुरमुण्ड पूर्वोक्तः / लोचेन वा मुण्ड इति गम्यते / रजोहरणं जीवरक्षाहेतुरूपम् / अवग्रहं च प्रतिग्रहकं पात्रमित्यर्थः / गृहीत्वोपादाय धर्मोपकरणबुद्ध्या, श्रमणभूतः श्रमणकल्पो विहरति चेष्टते / धर्मं श्रमणोपासकधर्मम् / कायेन शरीरेण स्पृशन्नासेवमानः पालयन्निति यावत् // 35 // अस्यैव विहारविधिमाह - ममकारेऽवोच्छिण्णे, वच्चति सण्णायपल्लि दटुं जे / तत्थ वि जहेव साहू, गेण्हति फासुं तु आहारं // 480 // 10/36 ममकारे ममत्वे अव्यवच्छिन्नेऽनपगतेऽप्रच्युते, व्रजति सज्ञातपल्लिं स्वजननिवासभूमि द्रष्टुं निरीक्षितुम् / जे इति निपातः / तत्रापि स्वजनपल्यां व्यवस्थितः सन् यथैव साधुर्गृह्णाति उपादत्ते / प्रासुं प्रासुकं निर्जीवं पुनराहारमशनादिकम् // 36 / / पुव्वाउत्तं कप्पति, पच्छाउत्तं तु ण खलु एयस्स / ओदणभिलिंगसूवादि सव्वमाहारजायं तु // 481 // 10/37 पूर्वायुक्तं पूर्वकल्पितं स्वार्थं कृतमित्यर्थः तत् कल्पते। पश्चादायुक्तं [तु]पश्चात्कृतं पुनस्तदर्थनिष्पादितमित्यर्थः / न खल्वेतस्य श्रमणभूतस्योदनश्च भिलिङ्गसूपो मसूरसूपश्च तावादी यस्य तद्,ओदनभिलिङ्गसूपादि / सर्वमाहारजातं तु प्रसिद्धम् / यत उक्तं-कप्पड़ से पुव्वाउत्ते चाउलोयणे णो खलु पच्छाउत्ते भिलिङ्गसुवे [श्री कल्पसूत्रे सूत्र-२६६] // 37 // एवं उक्कोसेणं, एक्कारस मास जाव विहरेइ / एगाहादियरेणं, एवं सव्वत्थ पाएणं // 482 // 10/38 एवमुक्तनीत्योत्कर्षेणायुर्व्याघाताभावे एकादश मासान् यावद्विहरति / एकाहादि एकं च तदहश्च एकाहमेकदिवसः, स आदिर्यस्य तत्तथा / इतरेण जघन्येन एवं [एतच्च अटी.] सर्वत्र