SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ गाथा-२६-२९ १०-उपासकप्रतिमा-पञ्चाशकम् 135 कादिग्रहः / स्वादिमे स्वाद्ये, अशेषं सकलं सचित्तं वर्जयतीति सम्बन्धः / शेषपदसमायुक्तः शेषगुणाभिधायिपदसमन्वितः / यावन्मासान् सप्त विधिपूर्वं विहितन्यायेन // 25 / / उक्ता सप्तमी अष्टमीमाह - वज्जइ सयमारंभं, सावज्जं कारवेइ पेसेहिं / पुव्वप्पओगओ च्चिय, वित्तिणिमित्तं सिढिलभावो // 470 // 10/26 वर्जयति स्वयमारम्भं सावा सपापम्, कारयति प्रेषैः प्रयोक्तृतया पूर्वप्रयोगत एव पूर्वनियुक्तव्यापारादेव वृत्तिनिमित्तं वर्तनोपायनिमित्तं शिथिलभावः स्वयं शिथिलाध्यवसायः // 26 // ननु स्वयमारम्भपरिहारः (रे) किमर्थमुद्य[त]ते / यावता स्वयंकरणे प्रयत्नः सम्भवति, न परेषाम्, तत् स्वयंकरणमेव युक्ततरं लक्ष्यते / नैष दोषो, न ह्यसौ पूर्वमारम्भं कारयति / केवलं पूर्वप्रवृत्तं प्रेष्यविषयमेव नियमयति / प्राक्तनं स्वयमपि कृतवान्,(वन्तं) नृ(नुः)पुरुषादिदानीं स्वयं वर्जयतीत्यभिप्रायवान् गुणोपदर्शनायाह - निग्घिणतेगंतेणं, एवं वि हु होइ चेव परिचत्ता / एदहमेत्तोऽवि इमो, वज्जिज्जंतो हियकरो उ // 471 // 10/27 निघृणता निष्करुणता एकान्तेनैवमपि स्वयमकरणेऽपि हुर्वाक्यालङ्कारे भवत्येव परित्यक्तोत्सृष्टा एवावन्मात्रोऽप्ययमारम्भः स्वयंकरणरूपः वय॑मानो हितकरस्तु हितकर एव श्रेयस्कर एव // 27 // अत्रैव हेतुमाह - भव्वस्साणावीरियसंफासणभावतो णिओगेणं / पुव्वोइयगुणजुत्तो, ता वज्जति अट्ठ जा मासा // 472 // 10/28 भव्यस्य योग्यस्य, आज्ञावीर्ययोः संस्पर्शनं तद्भावतो नियोगेन नियमेनारम्भो, वर्ण्यमान, इयानपि हितकरः / एवं हि कुर्वताज्ञा संस्पर्शिता भवति वीर्यं च / पूर्वोदितगुणयुक्तः पूर्वप्रतिमागुणान्वितः तावद् वर्जयत्यारम्भमष्ट (ष्टौ )यावन्मासान् / / 28 / / उक्ता अष्टमी, अधुना नवमीमाह - पेसेहि वि आरंभं, सावज्जं कारवेइ णो गुरुयं / अत्थी संतुट्ठो वा, एसो पुण होति विण्णेओ // 473 // 10/29 प्रेषैरपि प्रेषणीयैर्भूत्यैरपि आरम्भं सावद्यं कारयति ।नो नैव गुरुकं महान्तम् अर्थी अर्थयति
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy