________________ गाथा-४५-४८ ९-यात्राविधान-पञ्चाशकम् लब्ध्वाऽवाप्य दुर्लभं दुष्प्राप्यं तत्तस्मात् मनुजत्वं मानुषत्वम् / तथा च प्रवचनं जिनानामिदं जैनम् / उत्तमनिदर्शनेषूत्तमज्ञातेषु बहुमानः प्रीतिविशेषः भवति कर्तव्यः // 44 // एसा उत्तमजत्ता, उत्तमसुयवणिया सदि बुहेहिं / सेसा य उत्तमा खलु, उत्तमरिद्धीएँ कायव्वा // 439 // 9/45 एषा पूर्वोक्ता उत्तमयात्रा प्रधानयात्रा उत्तमश्रुतवर्णिता कल्पादिश्रुतवर्णिता / सदा सर्वकालं बुधैर्विद्वद्भिः शेषा चोक्तदिनेभ्योऽन्या उत्तमा खलूत्तमैव उत्तमा प्रधाना कर्तव्या // 45 // व्यतिरेकदोषमाह - इयराऽतब्बहुमाणोऽवण्णा य इमीऍ निउणबुद्धीए / एयं विचिंतियव्वं, गुणदोसविहावणं परमं // 440 // 9/46 इतरथाऽतद्बहुमानोऽनन्तरस्थानबहुमानो हीनगुणबहुमान इत्यर्थः / अवज्ञा च परिभवश्च अस्यामुत्तमयात्रायां निपुणबुद्ध्या सूक्ष्मधिया। एवं विचिन्तयितव्यमालोचनीयम् / गुणदोषविभावनं वस्तुस्वरूपगुणदोषप्रकाशकम् / परमं प्रधानम् // 46 / / एतदेवाह - जेलृमि विज्जमाणे, उचिए अणुजेट्टपूयणमजुत्तं / लोगाहरणं च तहा, पयडे भगवंतवयणम्मि // 441 // 9/47 ज्येष्ठे प्रथमे विद्यमाने सम्भवत्यविरोधेन, उचिते योग्ये अनुज्येष्ठस्यानन्तरस्थानीयस्य पूजनमाश्रयणमत्यहितत्वापादनम् अयुक्तं लोकाहरणं च लोकोदाहरणं च / तथा प्रथमस्थानवर्तितयाऽयुक्तम्, प्रकटे प्रकाशे भगवद्वचने प्रथमस्थानवर्तिनि सति, निदर्शनरूपेण तु द्वितीयस्थाने लोकोदाहरणमप्याश्रियते ज्येष्ठाविरोधेन // 47 / / किमित्येवमुपदिश्यत इत्याह - लोगो गुरुतरगो खलु, एवं सति भगवतो वि इट्ठो त्ति / मिच्छत्तमो य एयं, एसा आसायणा परमा // 442 // 9/48 लोको गुरुतरकः खलु गौरवार्हः एवं सत्यनुज्येष्ठपूजने भगवतोऽपि सकाशाद् इष्ट इत्यभिप्रेतः / मिथ्यात्वमेव ['ओकारो निपातः पूरणार्थः अटी.] चैतत् सर्वज्ञादपि लोकोत्तमत्वाश्रयणम् एषा आशातना परमा सर्वज्ञावज्ञासम्पादनेन तस्मात्, सर्वत्र प्रथमं सर्वज्ञवचनमेवाङ्गीकर्तव्यम्, तदनु लोकस्तदविरोधि // 48 / /