SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 124 ९-यात्राविधान-पञ्चाशकम् गाथा-३१-३५ पञ्च महाकल्याणानि देवभवावतार-जन्म-दीक्षा-केवलज्ञानोत्पत्ति-निर्वाणाख्यानि, जिनानां सर्वेषां भवन्ति नियमेन नियोगेन, भुवनाश्चर्यभूतानि सकललोकाद्भुतरूपाणि कल्याणफलानि च जीवानां सर्वेषामेवैकेन्द्रियपञ्चेन्द्रियतिर्यङ्मनुष्यदेवानां कल्याणप्रतिबद्धदिवससमयानामनादिभावेन सर्वावसर्पिण्यादिषु प्रतिनियतत्वाख्यानात्, तेषु च तद्भावप्रवृत्तेः // 30 // तान्येव निर्दिदिक्षुराह - गब्भे जम्मे य तहा, निक्खमणे चेव नाणनिव्वाणे / भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा // 425 // 9/31 गर्भेऽवतारसमये, जन्मनि च तथा निष्क्रमणे च चारित्रप्रतिपत्तौ ज्ञाने निर्वाणे भुवनगुरूणां जगत्पूज्यानां जिनानां तीर्थकराणां कल्याणानि भवन्ति ज्ञातव्यानि // 31 // तेसु य दिणेसु धन्ना, देविंदादी करिति भत्तिनया / जिणजत्तादिविहाणा, कल्लाणं अप्पणो चेव // 426 // 9/32 तेषु च दिनेषु धन्याः पुण्यभाजः, देवेन्द्रादयो देवासुराद्यधिपतयः कुर्वन्ति विदधति भक्तिनता भक्तिप्रह्वा जिनयात्रादिविधानाद् विधिना कल्याणं श्रेयोहेतुः आत्मनश्चैवास्माकं श्रेय इति मन्यमानाः ['चैव'शब्दस्य समुच्चयार्थत्वेन परेषां च-अटी.] // 32 // इय ते दिणा पसत्था, ता सेसेहिं पि तेसु कायव्वं / जिणजत्तादि सहरिसं, ते य इमे वद्धमाणस्स // 427 // 9/33 एतानि [इय' इत्यतो हेतोः पूर्वोक्तात्... अटी.] कल्याणसम्बन्धीनि दिनानि प्रशस्तानि मङ्गल्यानि, तत्तस्मात् शेषैरपि मनुष्यैः तेषु दिनेषु कर्तव्यं जिनयात्रादि सहर्षं सप्रमोदं यथा भवति / तानि चेमानि कल्याणदिनानि वर्धमानस्य भगवतः // 33 / / आसाढसुद्धछट्ठी, चेत्ते तह सुद्धतेरसी चेव / मग्गसिरकिण्हदसमी, वइसाहे सुद्धदसमी य // 428 // 9/34 कत्तियकिण्हे चरिमा, गब्भाइदिणा जहक्कम एते / हत्थुत्तरजोएणं चउरो, तह सातिणा चरमो // 429 // 9/35 जुम्मं / आषाढ शुद्धषष्ठ्या आषाढशुक्लपक्षषष्ठीतिथिः, चैत्रे तथा शुद्धत्रयोदशी चैव मार्गशीर्षकृष्णदशमी वैशाखे शुद्धदशमी च // 34 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy