SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 122 ९-यात्राविधान-पञ्चाशकम् गाथा-२२-२५ तस्मिन् प्रावचनिके असत्यसन्निहिते राजा नृपतिः द्रष्टव्यः श्रावकैरपि क्रमेण नीत्या कारयितव्यश्च तथा दानेनापि तदाह्लादकेन अमाघात इति अवधः // 21 // परोपतापपरिहारार्थमाह - तेसि पि घायगाणं, दायव्वं सामपुव्वगं दाणं / तत्तियदिणाण उचियं, कायव्वा देसणा य सुहा // 416 // 9/22 तेषामपि घातकानां प्राणिवधजीविनां दातव्यं देयम् / सामपूर्वकं प्रीतिपूर्वकं दानमन्नपानादेस्तावद्दिनानामुचितं यात्रादिनयोग्यम् / कर्तव्या देशना च शुभा भवतामप्येवं धर्मावाप्तिर्भविष्यतीति // 22 // एवं क्रियमाणे को गुण इत्याह - तित्थस्स वण्णवाओ, एवं लोगम्मि बोहिलाभो य / केसिंचि होइ परमो, अण्णेसिं बीयलाभो त्ति // 417 // 9/23 तीर्थस्य शासनस्य वर्णवादो गुणवादः / एवमुक्तनीत्या लोके सर्वजने बोधिलाभश्च सम्यक्त्वलाभश्च केषाञ्चिल्लघुकर्मणां भवतीति परमः प्रधानः / अन्येषां बीजलाभ इति पुण्यानुबन्धिपुण्यसम्पत्तिः / 23 / / किमिति वर्णवाद एवेष्यते इत्याह - जा चिय गुणपडिवत्ती, सव्वण्णुमयम्मि होइ परिसुद्धा / स च्चिय जायति बीयं, बोहीए तेणणाएणं // 418 // 9/24 यैव च गुणप्रतिपत्तिर्गुणाभ्युपगतिः सर्वज्ञमते सर्वज्ञशासने भवति परिशुद्धा भावगर्भा प्रशंसादिरूपा सैव च जायते बीजं कारणं बोधेर्बोधिलाभस्य स्तेनज्ञातेन चौरोदाहरणेन / तच्च प्रागुक्तम् (7-8 गाथायाम्) // 24 // व्यतिरेकमाह - इय सामत्थाभावे, दोहि वि वग्गेहिं पुव्वपुरिसाणं / इय सामत्थजुयाणं, बहुमाणो होति कायव्वो // 419 // 9/25 इति सामर्थ्याभाव एवंविधशक्त्यभावे द्वाभ्यामपि वर्गाभ्यां साधुश्रावकसमूहाभ्यां पूर्वपुरूषाणां स्ववर्गान्तःपातिनां प्राक्तनकालभाविनां स्वकीयवर्तमानकालापेक्षया / इति सामर्थ्ययुतानामेवंविधसामोपेतानां बहुमानस्तेषु प्रीतिविशेषः भवति कर्तव्यः // 25 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy