________________ गाथा-४४-४८८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् 115 एसा उ महादाणं, एस च्चिय होति भावजण्णो त्ति / एसा गिहत्थसारो, एस च्चिय संपयामूलं // 388 // 8/44 एतीऍ फलं णेयं, परमं निव्वाणमेव नियमेण / सुरणरसुहाई अणुसंगियाइं इह किसिपलालं व // 389 // 8/45 तिगं / आसन्नसिद्धिकानां प्रत्यासन्नमुक्तीनां लिङ्गं चिह्नम् इदं जिनवरैः प्रज्ञप्तं कथितम् / सङ्के चैव पूजा सामान्येन तदध्यवसायात् गुणनिधौ सकलगुणनिधाने // 43 // एषा तु सङ्घपूजा महादानं तदपरदानापेक्षया / एषैव च भवति भावयज्ञ इति भावपूजेत्यर्थः / एषा गृहस्थसारो गृहस्थधर्मसार इत्यर्थः / एषैव च सम्पन्मूलं सर्वसम्पद्धेतुरित्यर्थः // 44 // एतस्याः सङ्घपूजायाः, फलं विज्ञेयं परमं प्रधानं निर्वाणमेव सिद्धिपदमेव, नियमेन नियमाद् / न च सुरनरसुखान्यानुषङ्गिकाण्यनुषङ्गरूपाण्यप्रधानानीत्यर्थः / इह फलप्रस्तावे कृषिपलालवत् / यथा कृषौ पलालमप्रधानम्, धान्यावाप्तिः प्रधाना, तन्निमित्तं लोकप्रवृत्तेश्च, एवमिहापि // 45 / / (सङ्घपूजाप्रकरणमुपसंहरन्नाह - अटी.) कयमेत्थ पसंगेणं, उत्तरकालोचियं इहऽण्णं पि / अणुरूवं कायव्वं, तित्थुण्णतिकारगं नियमा // 390 // 8/46 कृतमत्र प्रसङ्गेनालमत्र विस्तरेण उत्तरकालोचितमिहान्यदप्यनुरूपं योग्यं कर्त्तव्यं तीर्थोन्नतिकारकमनुकम्पादानम्, नियमान्नियोगेन // 46 // उचिओ जणोवयारो विसेसओ णवर सयणवग्गम्मि / साहम्मियवग्गम्मि य एयं खलु परमवच्छल्लं // 391 // 8/47 उचितो योग्यो जनोपचारः, सामान्येन, लोकपूजा विशेषतो विशेषेण नवरं स्वजनवर्गे प्रत्यासन्नतरत्वात् / साधर्मिकवर्गेऽपि च स्वजनादन्यस्मिन् एतत् खलु परमवात्सल्यं साधर्मिकवर्गोपचार एव प्रधानवात्सल्यम् // 47 // (1. एवं अटी.) अट्ठाहिया य महिमा, सम्म अणुबंधसाहिगा केई / अण्णे उ तिण्णि दियहे, निओगओ चेव कायव्वा // 392 // 8/48 अष्टाह्निका च महिमा पूजा महिमाशब्दः स्त्रीलिङ्गोऽप्यस्ति /