________________ 114 ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-३९-४३ अमुमेवार्थं समर्थयन्नाह - गुणसमुदाओ संघो, पवयण तित्थं ति होंति एगट्ठा / तित्थगरोऽवि य एयं, णमए गुरुभावतो चेव // 383 // 8/39 गुणानां सम्यग्दर्शनादीनां समुदायो मेलकः सङ्घ, प्रवचनम्, तीर्थमिति भवन्त्येकार्थाः शब्दाः तीर्थकरोऽपि चैनं सङ्कं नमति नमस्करोति गुरुभावत एव (चैव) गुणगौरवादेव गुर्वाध्यवसायादेव // 39 // श्रुतोक्तमेवाह - तप्पुव्विया अरहया, पूजितपूया य विणयकम्मं च / कयकिच्चो वि जह कहं, कहेति नमते तहा तित्थं // 384 // 8/40 तत्पूर्विका श्रुतज्ञानपूर्विका तदाधारसङ्घपूर्विका वा अर्हताम् अर्हता पूजितपूजा च लोके भगवद्भिः पूजितस्य पूजा प्रवर्तते / विनयकर्म च कृतं भवति। 'विनयमूलमयो धर्मः प्रवर्तयितव्य' इत्यभिप्रायात् स्वयं विनयं प्रयुङ्क्ते / कृतकृत्योऽपि कृतार्थोऽपि नयाभिप्रायाद् यथा कथां कथयति देशनां करोति तथा नमति तीर्थं श्रुतज्ञानं सङ्घ वा // 40 // एयम्मि पूजियम्मी, नत्थि तयं जं न पूजियं होइ / भुअणे वि पूयणिज्जं, न गुणट्ठाणं ततो अण्णं // 385 // 8/41 एतस्मिन् सङ्के पूजिते सति नास्ति तकद् यन्न पूजितं भवति / सर्वमेव पूजितमिति भावः। भुवनेऽपि लोकेऽपि पूजनीयं पूज्यतमं न गुणस्थानं यद् अतो सङ्घादन्यद् अपरमेतदेव पूज्यतमम् // 41 // तप्प्यापरिणामो, हंदि महाविसयमो मुणेयव्वो / तद्देसपूयणम्मि वि, देवयपूयादिणाएण // 386 // 8/42 तत्पूजापरिणामः सङ्घपूजापरिणामो हन्तेत्यामन्त्रणे / महाविषयो अनल्पविषयो [ मो' मकारः प्राकृतत्वात् - अटी.] मन्तव्यो विज्ञेयः तद्देशपूजनेऽपि विवक्षितक्षेत्रवर्तिसङ्घकदेशपूजनेऽपि देवतापूजादिज्ञातेन देवतापूजास्नानविलेपनाद्युदाहरणेन / यथा पादाद्येकदेशपूजनेन सकलदेवतापूजा, एवं सङ्घकदेशपूजनेनापि सर्वसङ्घपूजा // 42 / / आसन्नसिद्धियाणं, लिंगमिणं जिणवरेहिं पण्णत्तं / संघमि चेव पूया, सामण्णेणं गुणनिहिम्मि // 387 // 8/43