________________ गाथा-३६-३८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् 113 जम्बूदीवपइट्ठा, जह सेसदीवमज्झयारंमि। आचंदसूरियं तह, होउइमा सुप्पट्ठत्ति // 2 // जह लवणस्स पइट्ठा, सव्वसमुद्दाण मज्झयारंमि। आचंदसूरियं तह, होउ इमा सुप्पट्टत्ति // 3 // इत्यादि / [ ] एते मङ्गलशब्दा मङ्गलध्वनयः तस्मिन् प्रतिष्ठाकाले शुभनिबन्धना शुभहेतवः दृष्टाः समयज्ञैः // 35 // सोउं मंगलसई, सउणंमि जहा उ इट्टसिद्धि त्ति / एत्थं पि तहा संमं, विण्णेया बुद्धिमंतेहिं // 380 // 8/36 श्रुत्वा मङ्गलशब्दं प्रशस्तम्, शकुने शकुनविषये यथा तु यथैव इष्टसिद्धिरिति लोकविदितमेतद्, अत्रापि प्रतिष्ठायां तथापि तेनैव प्रकारेण, सम्यग् विज्ञेया, इष्टसिद्धिः बुद्धिमद्भिः प्रज्ञावद्भिः // 36 // अण्णे उ पुण्णकलसादिठावणे उदहिमंगलादीणि / जंपंतऽण्णे सव्वत्थ भावतो जिणवरा चेव // 381 // 8/37 अन्ये तु सूरयः पूर्णकलशादिस्थापने पूर्णकलशप्रदीपादिस्थापने उदधिमङ्गलादीनि चतुःसमुद्राग्नित्रय-प्रभृतीनि जल्पन्ति वदन्ति, नामग्राहं प्रतिपादयन्ति अन्ये सूरय एवं सर्वस्मिन्नेव भावतः परिणामेन जिनवरा एव मङ्गलं तेन तन्नामैव ग्रहीतव्यमिति भावः // 37|| प्रतिष्ठानन्तरं विधिमाह - सत्तीऍ संघपूजा, विसेसपूजाउ बहुगुणा एसा / जं एस सुए भणिओ, तित्थयराणंतरो संघो // 382 // 8/38 शक्त्या यथाशक्ति सङ्घपूजा चतुर्विधसङ्घपूजा विधेयेतिशेषः, विशेषपूजा एकदिग्गताया सकाशाद् बहुगुणैषा सङ्घपूजा, यद् यस्माद् एष श्रुते भणितः श्रुत उक्तः तीर्थकरानन्तरं सङ्घः पूज्यतामङ्गीकृत्य तीर्थकरस्थानान्तरं द्वितीयस्थानवर्ती तत्प्रवर्तितगणधरादिसमुदायः / अथवानन्तरं विशेषो न विद्यते अन्तरमस्येति तीर्थकरानन्तरः तन्निविशेषस्तत्तुल्य इति यावत् / विशिष्टागमाभिप्रायेण प्रभु-समुहयोरभेदादनादिनिधनमहासमुदायत्वमङ्गीकृत्य तीर्थकरोऽनन्तरोऽस्येति तीर्थकरानन्तरस्तस्यापि पूज्यतम इत्यर्थः // 38 //