________________ 110 ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-२४-२७ स्वस्तिकः प्रसिद्ध एव चतुरस्रादिरूपः / यवका(वा)रक-वर्णक-स्वस्तिकादि सर्वं महारम्यं महारमणीयमेतत्कर्तव्यम् // 23 / / (1. सुभेक्खुरुक्खा अटी. / ) मंगलपडिसरणाइं, चित्ताइं रिद्धिविद्धिजुत्ताई। पढमदियहमि चंदणविलेवणं चेव गंधड्ढे // 368 // 8/24 मङ्गल[प्रतिसरणानि] स्तुतिपरकाणि मङ्गलात्मककङ्कणानि विचित्राणि नानाविधानि ऋद्धिवृद्ध्यौषध्यौ, शास्त्रप्रसिद्ध तद्युक्तानि / प्रथमदिवस आद्यदिने चन्दनं विलेपनं चैव गन्धाढ्यं कर्पूरकस्तूर्यादिपरिमलपरिपूर्णम् // 24 // चउनारीओमिणणं, नियमा अहिगास नत्थि उ विरोहो / नेवत्थं च इमासिं, जं पवरं तं इहं सेयं // 369 // 8/25 चतसृभिर्नारीभिः प्रशस्ताभिः / 'ओमिणणं' ओवेणकं लोकशास्त्रप्रसिद्धं [= अवमानं प्रोंखनकं - (अटी) पोंखणा] नियमान्नियमेन अधिकासु नास्ति तु नास्त्येव विरोधः शास्त्रव्याघातः / नेपथ्यं च वस्त्राभरणरूपम् आसां नारीणां यत्प्रवरं प्रधानं तन्नेपथ्यमिह प्रतिष्ठाप्रस्तावे श्रेयोऽतिशयप्रशस्यं प्रवरादन्यन्नेष्यते इति भावः / / 25 / / कथं पुनर्भोगाभिष्वङ्गान्न दोष इत्याशङ्क्याह - जं एयवइगरेणं, सरीरसक्कारसंगयं चारु / कीरइ तयं असेसं, पुण्णनिमित्तं मुणेयव्वं // 370 // 8/26 यत् नेपथ्यादि एतद्व्यतिकरेण देवप्रतिष्ठासम्बन्धेन शरीरसत्कारसङ्गतं शरीरविभूषासहचरितवृत्ति चारु शोभनं क्रियते निर्वय॑ते तकं ते पथ्यादि अशेषमखिलम् / पुण्यनिमित्तं पुण्यहेतुः मुणितव्यं मन्तव्यम् / न तत्प्रस्तावोपनतभोगादपि बन्धभावो देवपूजानिमित्तत्वात्तस्य, अन्यथात्वेभक्तेराशातना / तस्मात्पुण्यहेतुरेव तदिति / / 26 / / कुतः पुण्यनिमित्तमित्याह - तित्थगरे बहुमाणा, आणाआराहणा कुसलजोगा। अणुबंधसुद्धिभावा, रागादीणं अभावा य // 371 // 8/27 तीर्थकरे भगवति बहुमानाद्धेतोः आज्ञाराधनादागमाराधनात्, कुशलयोगात् कुशलव्यापारात्, शास्त्रोक्तत्वेन / अनुबन्धशुद्धिभावात्सन्तानकर्मक्षयभावाद् रागादिनामभावाच्च। न हि रागादिकलुषितचेता इत्थं प्रवर्त्तते / तत्प्रवृत्तेरशास्त्रपूर्वकत्वाद्, यथाकथञ्चित्परोपघातेनापि