________________ गाथा-२०-२३ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् ____ 109 इतश्च पूजाद्यविरुद्धमित्याह - साहम्मिया य एते, महड्डिया सम्मदिट्ठिणो जेण / एत्तो च्चिय उचियं खलु, एतेसिं एत्थ पूजादी // 364 // 8/20 सार्मिकाश्च समानधार्मिकाश्च एते देवेन्द्रलोकपालादयो देवा: महद्धिका महती ऋद्धिर्विभूतिर्येषां ते तथा सम्यग्दृष्टयो येन समीचीनदृष्टिदर्शनं येषां ते, तथा / अत एव साधर्मिकादित्वादेव, उचितं खलु योग्यमेव / एतेषां प्रस्तुतानाम् अत्र प्रतिष्ठाविधाने पूजादि पूजासत्कारबहुमानादि // 20 // तत्तो सुहजोएणं, सट्ठाणे मंगलेहिँ ठवणा उ। अभिवासणमुचिएणं, गंधोदगमादिणा एत्थ // 365 // 8/21 ततस्तदन्तरं शुभयोगेन पूर्वोक्तेनेष्टकालविशेषेण स्वस्थानेऽभिवासनयोग्ये मङ्गलैः प्रशस्तरूपैः स्थापना तु न्यासः अभिवासनमधिवासनं वा / उचितेन गन्धोदकादिना, आदिशब्दाच्छुभपुष्पोदकपरिग्रहः अत्र प्रतिष्ठायाम् // 21 // चत्तारि पुण्णकलसा, पहाणमुद्दाविचित्तकुसुमजुया / सुहपुण्णचत्तचउतंतुगोच्छया होंति पासेसु // 366 // 8/22 चत्वारः पूर्णकलशाः अखण्डकलशाः, प्रधानमुद्रया रूप्य-सुवर्ण-रत्नरूपया, विचित्रकुसुमैश्च नानाविधपुष्पैश्च युताः संयुक्ताः प्रधानमुद्राविचित्रकुसुमयुताः शुभपूर्णचत्रचतुस्तन्तुकावस्तृताः / चत्रं तकुँ, पुण्यं [पूर्ण-अटी.] शुभकर्मप्रवृत्तं पुण्य (पूर्ण) चत्रात् समुत्पन्नं चतुस्तन्तुकम् / समाहारद्वन्द्वादेकत्वं कन् प्रत्ययश्च शुभं निरवद्यं [पूर्ण चत्रचतुस्तन्तुक, तेन] पूर्णचत्रचतुस्तन्तुकेनावस्तृता आच्छादिता, ग्रीवाप्रदेशेषु कृतकण्ठे गुणाः चतुर्षु पार्वेषु चतुसृषु दिक्षु पुरस्तात् प्रतिष्ठाप्यप्रतिमायाः // 22 // मंगलदीवा य तहा, घयगुलपुण्णा 'सुभिक्खुभक्खा य / जववारयवण्णयसत्थिगादि सव्वं महारंमं // 367 // 8/23 मङ्गलदीपाश्च तथा घृत-गुडपूर्णास्तत्समन्विताः / खरविस(श)दमभ्यवहार्यं भक्ष इत्यभिधीयते, भोज्यं तु सामान्येन द्रवादिस्वरूपमपि, शोभने भक्ष-भोज्ये येषु मङ्गलदीपेषु ते तथा / पाठान्तरं वा शुभेक्षुवृक्षाश्च इक्षुवृक्षा इक्षुयष्टयः शुभाश्च ते इक्षुवृक्षाश्च / यवका[वा]रकाः शरावादिरोपितयवाङ्कराः। तेषां बीजावसानत्वात् / वर्णकश्चन्दनं श्रीखण्डमन्यद् वा सुन्दरम् /