SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 108 ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-१६-१९ एवं बिम्बकारणगतं विधिमभिधाय प्रस्तुतप्रतिष्ठाविधिमाह - निप्फण्णस्स य सम्म, तस्स पइट्ठावणे विही एस / सुहजोएण पवेसो, आयतणे ठाणठवणा य // 360 // 8/16 निष्पन्नस्य च संसिद्धस्य च सम्यक् न्यायेन तस्य बिम्बस्य प्रतिष्ठापने स्थापनायां विधिरेष वर्तते / शुभयोगेन साधकचन्द्रनक्षत्रादिसम्बन्धेन प्रशस्तमनोवाक्कायव्यापारेण वा प्रवेशः प्रवेशनं बिम्बस्येति गम्यते आयतने भवने स्थानस्थापना च उचितन्यासश्च // 16 // तेणेव खेत्तसुद्धी, हत्थसयादिविसया निओगेण / कायव्वो सक्कारो, य गंधपुप्फादिएहि तहि // 361 // 8/17 तेनैव शुभयोगेन क्षेत्रशुद्धिः समन्तात् क्षेत्रविशुद्धिरस्थि-मांसाद्यशुभद्रव्यापहारेण हस्तशतादिविषया, आदिशब्दादधिकतरपरिग्रहः / नियोगेनावश्यंतया कर्तव्यः सत्कारश्च सत्क्रिया पूजेति यावत्, गन्धपुष्पादिकैः सुरभिगन्धद्रव्यपुष्पवस्त्रादिभिः, तत्र क्षेत्रे तस्मिन् वा प्रतिष्ठाकाले // 17 // दिसिदेवयाण पूया, सव्वेसिं तह य लोगपालाणं / ओसरणकमेणऽण्णे, सव्वेसिं चेव देवाणं // 362 // 8/18 दिग्देवतानामिन्द्रादीनां पूजा सर्वेषां तथा च लोकपालानां सोम-यम-वरुण-कुबेराणां शक्रसम्बन्धिनां पूर्वादिदिग्व्यवस्थितानाम् / तथाहि पूर्वस्यां दिशि सोमो धनुःपाणिः कमण्डलुहस्तश्च शान्तिकर्मविधायि शक्रादिदेशादा(शेना)गमे श्रूयते, यमो दक्षिणस्यां दण्डपाणिः, अपरस्यां वारुणः पाशपाणिः, उत्तरस्यां कुबेरो गदापाणिः। समवसरणक्रमेण, अन्ये [सूरयः अटी.] सर्वेषां चैव देवानां पजा कर्तव्येति सम्बध्यते // 18 // किं पुनरेषां पूजा क्रियत इत्याह - जमहिगयबिंबसामी, सव्वेसिं चेव अब्भुदयहेऊ / ता तस्स पइट्टाए, तेसिं पूयादि अविरुद्धं // 363 // 8/19 यद् यस्माद् अधिकृतबिम्बस्वामी जिनबिम्बस्वामी सर्वेषां चैवेन्द्रादिदेवानाम् अभ्युदयहेतुर्वृद्धिहेतुर्वर्तते / तत्तस्मात् तस्य भगवतः प्रतिष्ठायां प्रस्तुतायां तेषामिन्द्रादीनां पूजादि पूजासत्कारबहुमानादि अविरुद्धं शास्त्राविरुद्धं भवतीति शेषः // 19 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy