________________ गाथा-४७-५० ७-जिनभवनविधि-पञ्चाशकम् 103 तत्रापि चायतनकरणे, साधुदर्शने भावोऽभिलाषः तदर्जितकर्मतस्तु तदुपात्तपुण्यकर्मतस्तु गुणरागो गुणप्रीतिः, काले चावसरे च साधुदर्शनं साध्ववलोकनम्, अथ क्रमेणानुपूर्व्या यथाक्रमेण वा / यो योऽनुरूपः क्रमस्तेन, वीप्सायामव्ययीभावो, विभक्तेश्चालुक्। गुणकरणशीलंगुणकरमेव पुण्यसामर्थ्येन भवतीति सम्बन्धनीयम् // 46 / / पडिबुज्झिस्संतऽन्ने, भावज्जियकम्मओ य पडिवत्ती / भावचरणस्स जायइ, एगंतसुहावहा नियमा // 341 // 7/47 प्रतिभोत्स्यन्तेऽवभोत्स्यन्ते प्रतिबोधं यास्यन्तीत्यर्थः / अन्ये जीवा / एवंविध भावार्जितकर्मतश्च विशिष्टभावार्जितपुण्यकर्मतः प्रतिपत्तिरभ्युपगमो, भावचरणस्य चारित्रपरिणामस्य जायते सम्पद्यते। एकान्तसुखावहा एकान्तसुखो मोक्षः, तमावहतीति कृत्वा, तदवन्ध्यकारणत्वेन, नियमान्नियमेन पारम्पर्याव्यभिचारात् // 47 // अपरिवडियसुहचिंताभावज्जियकम्मपरिणईए उ। गच्छति इमीए अंतं, तओ य आराहणं लहइ // 342 // 7/48 अपरिपतिताऽप्रतिपतिता, शुभचिन्ता शुभाध्यवसायः तद्भावेन, तत्प्रत्ययात् तत्परिणामेन वा अर्जितमुपात्तं यत्कर्म पुण्यं तत्परिणतेस्तद्विपाकात्, पुनः गच्छत्यस्याः शुभचिन्तायाः चरणप्रतिपत्तेर्वा अन्तं पर्यवसानं प्रकर्षे ततस्तु ['य' = च अटी.] प्रकर्षाद् आराधनां ज्ञानादिनिष्पत्तिः लभते प्राप्नोति // 48 // निच्छयनया जमेसा, चरणपडिवत्तिसमयओ पभिति / आमरणंतमजस्सं, संजमपरिपालणं विहिणा // 343 // 7/49 निश्चयनयनान्निश्चयनयाभिप्रायाद् यद् यस्माद् एषाराधना चरणप्रतिपत्तिसमयतः प्रभृति चरणप्रतिपत्तिकालादारभ्य आमरणान्तमजस्त्रं संयमपरिपालनं विधिनागमोक्तेन // 49 // आराहगो य जीवो, सत्तट्ठभवेहिं पावए नियमा / जम्मादिदोसविरहा, सासयसोक्खं तु निव्वाणं // 344 // 7/50 आराधकश्च जीवश्चरणप्रतिपत्तेः सप्ताष्टभवैः सप्तभिरष्टभिर्वेत्यर्थः / प्राप्नोति लभते नियमान्नियोगेन / जन्मादिदोषविरहाज्जन्मजरामरणदोषविगमात् शाश्वतसौख्यं तु ध्रुवसौख्यमेव निर्वाणं सिद्धपदम् // 50 // // जिनभवनकारणविधान-पञ्चाशकं सप्तमं समाप्तम् //