________________ गाथा-३९-४१ _ ७-जिनभवनविधि-पञ्चाशकम् 101 तत्र शिल्पादिविधाने प्रधानांशः प्रवर्तकोऽवयवः बहुदोषनिवारणात्त्वधिकदोषनिवारणैव, जगद्गुरोर्भगवतः, नागादिरक्षणे नागादेः सादरुपद्रवहेतोः सकाशाद्क्षणे / यथा कर्षणदोषेऽप्याकर्षणजनितापराधेऽपि मात्रादेः सुतादिविषये शुभयोगः शुभव्यापारः, तथैव भगवतः शुभयोगो वर्तते / नागादिरक्षणेऽधिकदोषाभावेन शुभयोग एव // 38 // दृष्टान्तगतं विवरीतुमाह - खड्डातडम्मि विसमे, इट्ठसुयं पेच्छिऊण कीलंतं / तप्पच्चवायभीया, तदाणणट्ठा गया जणणी // 333 // 7/39 दिवो य तीए नागो, तं पति एंतो दुओ उ खड्डाए। तो कड्डितो तगो तह, पीडाए वि सुद्धभावाए // 334 // 7/40 जुम्म। श्वभ्रतटे विषमे निम्नोन्नतादिरूपे, इष्टसुतमिष्टपुत्रं प्रेक्ष्य क्रीडन्तं स्वेच्छया विचरन्तं तत्प्रत्यवायभीता सुतापायभीता, तदानयनार्थं तनयानयनार्थं गता जननी // 39 // दृष्टश्च साक्षात् प्रत्यक्षतः तया जनन्या नागो भुजङ्गः, तं प्रति पुत्रं प्रति यन् व्रजन् आगच्छन्नित्यर्थः, द्रुतस्तु शीघ्रगति द्रुतं वा गर्तेन निम्नस्थानेन ततस्तदनन्तरं कृष्ट आकृष्टः तकः पुत्रः तच्छब्दस्याकच्प्रत्ययसहितस्य विकल्पेन शतृविधानाच्छब्दसिद्धिः, पाणिनीयोपनिबद्धमुण्डकेष्वभिधानात् / तथा पीडायामपि निम्नोन्नतकण्टकशाखावमर्दनादिजनितबाधायामपि सत्याम्, शुद्धभावया हितपरिणामोपेताध्यवसायया जनन्या। एवं भगवताप्यधिकदोषेभ्यो रक्षिताः प्राणिनः / सामान्यस्तु दोषे प्रवृत्तिस्तेषां स्वयमेवावस्थिता न तत्र भगवान्निमित्तम्, स्वयमेव हि शरीराद्यर्थे दुःखप्रतीकाराय प्राणिनः प्रवर्तन्ते, अभ्यवहारादिषु भगवास्तु स्वौचित्यं विज्ञाय किञ्चिदुपदिशति, तावतैव तेऽनुग्रहं मन्यन्ते / केवलज्ञानोत्पत्तौ च भगवतो (वान्) धर्माधर्मयोः प्रवृत्ति-निवृत्ती विदधति इति निर्दोषं शिल्पादिविधानम् // 40 // प्रस्तुतवस्तुसमर्थनायाह - एयं च एत्थ जुत्तं, इहराहिगदोसभावओऽणत्थो / तप्परिहारेऽणत्थो, अत्थो च्चिय तत्तओ णेओ // 335 // 7/41 एतच्च शिल्पादिविधानम् अत्र युक्तं न्यायोपपन्नम् इतरथाऽन्यथा, अधिकदोषभावतो ऽधिकदोषसद्भावाद् अनर्थः तत्परिहारे विशिष्टप्रत्यवायपरिहारे, अधिकदोषपरिहारे सतीत्यर्थः। अनर्थः स्वल्परूपः कश्चित् सुतपीडान्यायेन अर्थ एव तत्त्वतो ज्ञेयः समीहितकार्यसिद्धया / सर्वत्रापि हि समीहितार्थसिद्धिरेव परमार्थनार्थो भवति, तत्प्राप्तौ शेषक्लेशाऽगणनात् // 41 //