________________ ____ 99 गाथा-३०-३३ ७-जिनभवनविधि-पञ्चाशकम् तामेव स्तोतुमाह - जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव / तव्वुड्डीकरी जयणा, एगंतसुहावहा जयणा // 324 // 7/30 यतना च धर्मजननी धर्ममाता / यतना धर्मस्य पालनी चैव धर्मरक्षणकारित्वेन / तद्वृद्धिकरी यतना धर्मोपचयकरणशीला / एकान्तसुखावहा यतना मोक्षावहेत्यर्थः // 30 // जयणाएँ वट्टमाणो, जीवो सम्मत्तनाणचरणाणं / सद्धाबोहासेवणभावेणाराहगो भणिओ // 325 // 7/31 यतनायां वर्तमानो जीवः सम्यक्त्वज्ञानचरणानां भावरत्नरूपाणाम्, श्रद्धाबोधाऽऽसेवनभावेन आराधको भणितः / श्रद्ध्या सम्यक्त्वस्य बोधेन ज्ञानस्यासेवनेन चरणस्य संसाधक उक्तः // 31 // एनामेव फलत आह - एसा य होइ नियमा, तदहिगदोसविणिवारणी जेण / तेण निवित्तिपहाणा, विण्णेया बुद्धिमंतेहिं // 326 // 7/32 एषा च यतना भवति नियमात्तदधिकदोषनिवारण्यारम्भान्तराधिकदोषनिवारणी, येन कारणेन तेन निवृत्तिप्रधाना विज्ञेया बुद्धिमद्भिः। अन्यदा हि स्वारम्भेषु प्रवर्तमानो गृही यतनां नापेक्षते / यथाकथञ्चित् स्वाभिप्रेतं करोत्येव, धर्मेऽनुवर्तमानः सर्वं यतनापूर्वकं विधत्ते / धर्मपक्षपातात् तेनाऽऽरम्भान्तरेभ्योऽधिकदोषेभ्यो निवृत्तिफलेयं यतना सम्पद्यते // 32 // कीदृशी पुनः सा प्रस्तुतवस्तुनीत्याऽऽह - सा इह परिणयजलदलविसुद्धिरूवा उ होति नायव्वा / अन्नारंभनिवित्तीए अप्पणाहिट्ठणं चेव // 327 // 7/33 सा यतना इह प्रस्तुतजिनभवनकारणे परिणतजलदलविशुद्धिरूपातु परिपूत-त्रसादिरहितजलविशुद्धरूपैव भवति ज्ञातव्या अन्यारम्भेभ्यो गृहादिगतेभ्योऽनिवृत्तिः निरावृत्तिस्तदानीं तयाअन्यारम्भनिवृत्त्यात्मना स्वयमेव अधिष्ठानमध्यासनं चैव जिनायतनारम्भाणां स्वयमेवाधिष्ठातृत्वं प्रतिपद्यते / तेन कृष्याद्यारम्भेभ्यो निवृत्तिफलेयं भवति / / 33 / /