________________ 98 ७-जिनभवनविधि-पञ्चाशकम् गाथा-२६-२९ ___ स्वाशयवृद्धिरपि कुशलपरिणामवृद्धिरपि इह प्रस्तुते भुवनगुरुजिनेन्द्रगुणपरिज्ञया तीर्थकरगुणपरिज्ञानेन। तबिम्बस्थापनार्थं तीर्थकरबिम्बस्थापनार्थं शुद्धप्रवृत्त्या हेतुभूतया नियमान्नियोगेन // 25 // पेच्छिस्सं एत्थ अहं, वंदणगनिमित्तमागए साहू / कयपुण्णे भगवंते, गुणरयणनिही महासत्ते // 320 // 7/26 प्रेक्षिष्ये द्रक्ष्यामि अत्रायतने अहं वंदनकनिमित्तं चैत्यवन्दनार्थम् आगतान् साधून् कृतपुण्यानन्यथा भावसाधुत्वायोगात् पूर्वजन्मविहितपुण्यान्, भगवतो विशिष्टभावैश्वर्यादिसम्पन्नान् गुणरत्ननिधीन् क्षान्त्यादिगुणरत्नाकरान् महासत्त्वान् महाव्यवसायान् / / 26 / / पडिबुज्झिस्संति इहं, दट्टण जिणिंदबिंबमकलंकं / अण्णे वि भव्वसत्ता, काहिंति तओ परं धम्मं // 321 // 7/27 प्रतिभोत्स्यन्ते सम्यक्त्वं लप्स्यन्ते भावनिद्रापगम इहाऽऽयतने दृष्ट्वा जिनेन्द्रबिम्बमकलङ्गं दोषरहितम् अन्येऽपि भव्यसत्त्वास्तथाविधपुण्यसामर्थ्यप्रेरिता / करिष्यन्ति ततस्तदनन्तरं परं धर्ममुत्कृष्टं धर्मम् // 27 // ता एयं मे वित्तं, जमेत्थमुवओगमेति अणवरयं / / इय चिंताऽपरिवडिया, सासयवुड्डी उ मोक्खफला // 322 // 7/28 ततस्तस्माद् एतदिदमेव मे [मदीयम् अटी.] वित्तं द्रव्यं यदत्रायतने उपयोगमेत्युपयुज्यते। अनवरतं सततम् इत्येवंविधा चिन्ता मनोवृत्तिः अप्रतिपतितापरिपतिता वा / स्वाशयवृद्धिस्तु मोक्षफला सिद्धिफला // 28 // यतनां विवरीषुराह - जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसु / जयणा उ धम्मसारो, जं भणिया वीयरागेहिं // 323 // 7/29 यतना च प्रयत्नेन कर्तव्याऽत्र जिनायतनकारणे / सर्वयोगेषु सर्वव्यापारेषु यतनैव धर्मसारो धर्मोत्कर्षः / यद् यस्माद् भणितोक्ता वीतरागैः चार्हद्भिः // 29 / /