________________ गाथा-२१-२५ ७-जिनभवनविधि-पञ्चाशकम् शकुनादयः सर्वत्र शकुनपूर्वप्रवृत्तेरिष्टफलसाधनसंसूचकत्वात् / / 20 / / शुद्धदलमुक्तमधुना भृतकानतिसन्धानमाह - कारवणे वि य तस्सिह, भितगाणऽतिसंधणं न कायव्वं / अवियाहिगप्पयाणं, दिट्ठादिट्ठप्फलं एयं // 315 // 7/21 कारणेऽपि च प्रयोजकव्यापाररूपे तस्य जिनभवनस्य इह प्रक्रमे, भृतकानां कर्मका[क]राणाम् अतिसन्धानं वञ्चनं न कर्तव्यं न विधेयम् / अपि वाऽधिकप्रदानमुक्तादधिकस्य द्रव्यस्य प्रदानं समधिकदानमित्यर्थः / दृष्टादृष्टफलमेतदधिककर्मबोधिबीजादिफलमेतदधिकप्रदानम् // 21 // एतदेव व्यक्तीकर्तुमाह - ते तुच्छगा वराया, अहिगेण दढं उवेंति परितोसं / तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वंति // 316 // 7/22 ते भृतकाः तुच्छका तुच्छविभवाशयाः वराकाः क्रियास्पदत्वात्, अधिकेनाधिकप्रदानेन दृढमत्यर्थम् उपयान्ति गच्छन्ति परितोषं हर्षम् / तुष्टाश्च परितोषवन्तः तत्रायतने कर्मव्यापाररूपे ततः पूर्वस्माद् अधिकं प्रकुर्वन्ति स्वमतिपरितोषाढ्यम् / / 22 / / धम्मपसंसाए तहा, केइ निबंधंति बोहिबीयाई / अण्णे उ लहुयकम्मा, एत्तो च्चिय संपबुज्झंति // 317 // 7/23 धर्मप्रशंसया तथा भावगर्भया केचिद् भृतकाः निबध्नन्ति सम्पादयन्ति बोधिबीजानि बोधिलाभकारणपुण्यानि / अन्येत्वपरे पुनर्भूतकाः लघुकर्माणः प्रतनुज्ञानावरणीयादिकर्मांशाः / अत एवाधिकदानात् सम्प्रबुध्यन्ते सम्यक्प्रबोधमुपयान्ति // 23 / / लोगे य साहुवाओ, अतुच्छभावेण सोहणो धम्मो / पुरिसोत्तमप्पणीओ, पभावणा चेव तित्थस्स // 318 // 7/24 लोके च साधुवादः साध्वभिधानं यशोवाद इत्यर्थः / अतुच्छभावेनोदारभावेन / शोभनो धर्मः, सुन्दरो जैनधर्मः, पुरुषोत्तमप्रणीतः सर्वज्ञप्रणीतः / प्रभावना चैव तीर्थस्य प्रकाशना शासनस्योन्नतिरिति यावत् / / 24|| अधुना स्वाशयवृद्धिमाह - सासयवुड्डी वि इहं, भुवणगुरुजिणिंदगुणपरिण्णाए / तब्बिबट्ठवणत्थं, सुद्धपवित्तीऍ नियमेण // 319 // 7/25