________________ 96 ७-जिनभवनविधि-पञ्चाशकम् गाथा-१८-२० चात्मनैव कारितम् वृक्षादिपातनेन, यत् तेनैव तत्र महारम्भदोषात् // 17 // कः पुनस्तस्य (शुद्धाशुद्धत्व अटी.) परिज्ञानोपाय इत्याह - तस्स वि य इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ / तक्कहगहणाइम्मी, सउणेयरसन्निवाओ जो // 312 // 7/18 तस्यापि च प्रस्तुतदलस्य अयं वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः शुद्धमिदमशुद्धमिति वा / अस्मिन् विषये तत्कथाग्रहणादौ तत्कथादलविषयकथाग्रहणं स्वीकारस्तस्यैवादि-शब्दादानयनविशिष्टदेशोपस्थापनग्रहः / शकुनेतरसन्निपातो यः शकुनानामितरेषां च तद्विपरीतानां लोकशास्त्रप्रसिद्धानां समागमस्तत्कालभावित्वम् / / 18 // शकुनेतरप्रतिपादनयैव लेशत आह - नंदादि सुहो सद्दो, भरिओ कलसोऽत्थ सुंदरा पुरिसा / सुहजोगाइ य सउणो, कंदियसद्दाइ इयरो उ // 313 // 7/19 नन्दी द्वादशविधस्तूर्यसंघातस्तदादिरन्योऽपि द्विव्यादिसंयोगतः केवलो वा, शुभः शब्दो निमित्तशास्त्रप्रसिद्धः। __ सिद्धे इंदे चन्दे, सूरनरिन्दे तहेव गोविन्दे। सेल-समुद्दे गय-वसह सीह तह मेह सद्दे य // 1 // इति वा / शुभशब्द: भरितः परिपूर्णसलिलादिना, भृतो वा / इतजन्तस्तारकादिषु[ ] भरशब्दस्य पाठात् / द्वितीयसूक्तात् कलशो घटः अत्र वा सुन्दराः पुरुषाः अहीनपाण्याद्यवयवा सुखाश्च [सुखप्रदः] शुभयोगश्चन्द्र-नक्षत्रादिशुभसम्बन्धः, आदिशब्दाच्छुभमुहूर्तादिपरिग्रहः, शुभयोग आदिर्यस्य स शुभयोगादि तथा शुभशकुनः / क्रन्दितशब्दादितरस्तु, क्रन्दितशब्दो विक्लवध्वनिरादिशब्दाद् रुदिताद्यमनोज्ञरूपादिपरिग्रहः क्रन्दितशब्द आदिर्यस्य स तथा इतरस्तद्विपरितः, अशकुन इत्यर्थः // 19 // दलकथाग्रहणादौ शकुनेतरसन्निपातः शुद्धाशुद्धपरिज्ञानोपाय उक्तस्तदनन्तरं विधिमाह - सुद्धस्स वि गहियस्सा, पसत्थदियहम्मि सुहमुहुत्तेणं / संकामणम्मि वि पुणो, विण्णेया सउणमादीया // 314 // 7/20 शुद्धस्यापि शास्त्रोक्तदोषरहितस्यापि गृहीतस्य स्वीकृतस्य दलस्य प्रशस्तदिवसे शुक्लपञ्चम्यादौ शुभमुहूर्तेन सिद्धान्तोक्तेन सङ्क्रामणेऽपि विवक्षितदेशानयनेऽपि पुनर्विज्ञेयाः