________________ गाथा-१४-१७ ७-जिनभवनविधि-पञ्चाशकम् त्वागमविधिनैव // 13 // 'भावे पराऽप्रीतिरहिता इत्युक्तम् [7/10 गाथायाम्] तदङ्गीकरणेनाह - धम्मत्थमुज्जएणं, सव्वस्सापत्तियं न कायव्वं / इय संजमोऽवि सेओ, एत्थ य भयवं उदाहरणं // 308 // 7/14 धर्मार्थं धर्मनिमित्तम् उद्यतेन उद्यमवता सर्वस्य जनस्य अप्रीतिकमरतिरूपं न कर्तव्यम् अप्रीतिर्न करणीया। इत्येवमनेन प्रकारेण संयमोऽपि भावस्तथापि किमुत द्रव्यस्तवः, श्रेयानतिशयप्रशस्य अत्र चार्थे भगवान् वर्धमानस्वाम्युदाहरणं निदर्शनम् // 14|| एतदेवाह - सो तावसासमाओ, तेसिं अप्पत्तियं मुणेऊणं / परमं अबोहिबीयं, तओ गओ हंतऽकाले वि // 309 // 7/15 स भगवांस्तापसाश्रमात् कुलपत्यधिष्ठितात् तापसनिवासात्, तेषां तापसानां अप्रीतिकं सङ्क्लेशं मत्वावगम्य परममबोधिबीजमुत्कृष्टमबोधिलाभकारणम् / ततस्तापसाश्रमाद् गतो निष्क्रान्तो, हन्तेत्यामन्त्रणे / अकालेऽपि वर्षासमयेऽपि प्रथमार्धमासपर्यन्ते // 15 / / इय सव्वेण वि सम्म, सक्कं अप्पत्तियं सइ जणस्स / नियमा परिहरियव्वं, इयरम्मि सतत्तचिंता उ // 310 // 7/16 इति हेतौ सर्वेणापि धर्मार्थिना सम्यक् सन्यायेन शक्यं परिहर्तुं शकनीयं / मध्यस्थबुद्ध्या, अप्रीतिकं द्वेषकारणं 'सइ' सदा सर्वकालं जनस्य लोकस्य नियमान्नियमेन परिहर्तव्यं परिहरणीयमितरस्मिन् शक्यधर्मजीवितादिस्वरूपविषये, स्वतत्त्वचिन्ता तु स्वरूपचिन्तैव / ममैवायं दोष इति चिन्तनीयम्, नान्यस्मिन् जन्मान्तरेऽस्माभिः प्रकृष्टं पुण्यमुपार्जितम् / तेन मनोवाक्कायदोषरहितानामप्यस्माकं लोके न वृतिभाग् भवति, यदि पुनर्विशिष्टं पुण्यमस्माभिः कृतं स्यात्तत एषां शुभभावो धर्मव्यवस्थितानामस्माकमुपरि स्यात् // 16 // दलमधिकृत्याहकट्ठादी वि दलं इह, सुद्धं जं देवतादुववणाओ। नो अविहिणोवणीयं, सयं च कारावियं जं नो // 311 // 7/17 काष्ठाद्यपि, आदिशब्दादिष्टकादिग्रहः, दलमिह प्रक्रमे शुद्धं यद्देवताद्युपवनात्, आदिशब्दात् सिंहमनुष्यादिग्रहः / नो नैव अविधिना बलीवर्दादिमहापीडारूपेण उपनीतमानीतम् / स्वयं