________________ ६-स्तवनविधि-पञ्चाशकम् गाथा-४१-४३ साक्षात् [तु] स्वयं प्रवृत्तिमाश्रित्य कृत्स्नसंयमद्रव्यभावाभ्यां सर्वसंयमक्रियापरिणामाभ्याम, क्रियया भावेन च सर्वसंयमो यतेः परिपालनीयत्वेन विहितः, तेन तदविरोधेन प्रवृत्तस्य / नो नैव अयमिष्टो द्रव्यस्तवः गम्यतेऽवसीयते तन्त्रस्थित्याऽऽगमनीत्या / किमेवमभिधीयत इत्याहभावप्रधाना हि उपसर्जनीकृतद्रव्यस्तवाः स्वयंकरणमङ्गीकृत्य यस्मान्मुनय इति साधवो भवन्ति। तेषां हि शास्त्रविहितो भावस्तव एव प्रधानस्तदविरोधी द्रव्यस्तवोऽप्यभिमतः सर्वज्ञवचनानुसारित्वेन यथाविषयमवबोधाद्, इतरथा सर्वज्ञबहुमानानुपपत्तेः, नत्वेकं सर्वज्ञोक्तत्वे सत्यभिमतमितरच्च नाभिमतमित्यस्ति सम्यग्दृशां विभागो, विभागकरणे सम्यग्दृष्टित्वानुपपत्तेः // 40 // एएहितो अण्णे, जे धम्महिगारिणो उ तेसिं त् / सक्खं चिय विण्णेओ, भावंगतया जओ भणियं // 285 // 6/41 एतेभ्यो मुनिभ्यः कृत्स्नसंयमव्यवस्थितेभ्यः अन्येऽपरे ये धर्माधिकारिणस्तु श्रावकाः तेषां तु तेषां पुनः साक्षादेव विज्ञेयो द्रव्यस्तवः स्वयंकरणेन भावाङ्गतया कुशलपरिणामहेतुतया यतो भणितमुक्तम् // 41 // किं तदुक्तमित्याह - अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो / संसारपयणुकरणे, दव्वथए कूवदिटुंतो // 286 // 6/42 अकृत्स्नप्रवृत्तकानां संयममधिकृत्याकृत्स्नं प्रवर्तन्ते ये तेषां विरताविरतानां देशविरतानाम् एष खलु युक्तो द्रव्यस्तवः संसारप्रतनुकरणः प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा प्रतनुमल्पं संसारं करोतीति तथोच्यते द्रव्यस्तवे कूपदृष्टान्तो वर्णितः / यथा कूपे खन्यमाने तत्कालभाविनामन्यकालभाविनां पुरुषान्तरगतानां च परिश्रममलपिपासादीनां स्नान-पानाऽऽवगाहादिति तदुत्थसलिलप्रवाहादपगमो दृश्यते विवक्षितार्थसिद्धिश्च / एवमस्मिन्नपि द्रव्यस्तवे शास्त्रानुसारेण प्रवर्तमानानां तदुत्थशुभपरिणामादारम्भसमुत्थदोषापगमेनाभिषेधा [=लषिता]र्थसिद्धिरुपलभ्यते / अतः पूर्वसूरिभिः कूपदृष्टान्तः कृतः // 42 // आह परः - सो खलु पुप्फाईओ, तत्थुत्तो न जिणभवणमाई वि / आदीसद्दा वुत्तो, तयभावे कस्स पुप्फादी ? // 287 // 6/43 स खलु द्रव्यस्तवः पुष्पादिकस्तत्रोक्तः शास्त्र उक्त: न जिनभवनादिरपि / सूरिराह / आदिशब्दादुक्तःशास्त्रे प्रतिपादितः, तदभावे जिनभवनप्रतिमाद्यभावे कस्य पुष्पादिद्रव्यस्तवो