________________ गाथा-४४-४७ ६-स्तवनविधि-पञ्चाशकम् न कस्यचिन्निविषयत्वादिति भावः // 43 / / आह परः - नणु तत्थेव य मुणिणो, पुप्फादिनिवारणं फुडं अस्थि / अत्थि तयं सयकरणं पडुच्च नऽणुमोयणादी वि // 288 // 6/44 नन्वित्यक्षमायाम् तत्रैव च शास्त्रे मुनेः साधोः पुष्पादिनिवारणं स्फुटमस्ति प्रकटं विद्यते / सूरिराह अस्ति तकवत् तत्पुष्पादिनिवारणं स्वयंकरणं प्रतीत्य नानुमोदनाद्यपि नानुमोदनाकारणे // 44 // इहैवाभ्युच्चयमाह - सुव्वइ य वइररिसिणा, कारवणं पि हु अणुट्ठियमिमस्स / वायगगंथेसु तहा, एयगया देसणा चेव // 289 // 6/45 श्रूयते च शास्त्रे वज्ररिषिणा वज्रस्वामिना सम्पूर्णदशपूर्वविदा प्रवचनप्रसिद्धेन तीर्थकल्पेन कारणमपि करणप्रयोजनकव्यापाररूपम् / हु शब्दो वाक्यालङ्कारे, अनुष्ठितं विहितम्, अस्य द्रव्यस्तवस्य [द्रव्यस्तवहेतुः] पुष्पादि, प्रासुकोप[क]रणानयनेनाप्रमादाद्देवादिसंयमतत्त्वेन वाचकग्रन्थेषु तथा देवता रक्षणीय उमास्वातिवाचकविरचितधर्मरत्नावल्यादिश्च एतद्गता द्रव्यस्तवगता देशना चैव श्रूयते / यथोक्तं - "माल्यारोपण-धूप-प्रदीप-चितिचामराऽऽतपत्राणामहत्पूजासत्कारनिमित्तं त्यागजो [ धनव्ययज इति धर्मः"[ ] // 45 // समणुगओ च्चिय णेओऽहिगारिणो सुपरिसुद्धो त्ति // 290 // 6/46 द्रव्यस्तवोऽप्येवमुक्तनीत्या आज्ञापरतन्त्र-भावलेशेनाज्ञापरतन्त्र्यं भावप्रधानत्वान्निर्देशस्य भावलेशश्च द्रव्यस्तवसमुत्थः सर्वविरतिगतमहाभावापेक्षया, तत एकवद्भावस्तेन समनुगत एव समन्वित एव सन्, ज्ञेयो ज्ञातव्यः अधिकारिणो गृहिणः / सुपरिशुद्ध इति सुविशुद्धस्वरूपोऽन्यस्तु न तथाऽऽज्ञापारतन्त्र्यवैकल्यात् तथाविधकुशलव्यवसायाभावाच्चैतद्दोषविकलस्तु यथोदितः // 46 // अत एवाह - लोगे सलाहणिज्जो, विसेसजोगाउ उन्नतिनिमित्तं / जो सासणस्स जायइ, सो णेओ सुपरिसुद्धो त्ति // 291 // 6/47