________________ 87 गाथा-३७-४० ६-स्तवनविधि-पञ्चाशकम् तत् तस्मात् तदपि जिनभवनकारणाद्यपि अनुमतमेवानुज्ञातमेव अप्रतिषेधाद्धेतोस्तन्त्रयुक्त्यागमनीत्या इति हेतोः / शेषाणामेव यतीनां अत्र द्रव्यस्तवे, अनुमोदनाद्यविरुद्धम्, आदिशब्दात्कारणग्रहः, देशनया साधुव्यस्तवं कारयति / फलनिर्देशेन प्रवर्तनात् / प्रवर्तकत्वमेव च द्रव्यस्तवप्रयोजककर्तृत्वम् / अनुमतिकारणे द्रव्यस्तवे न विरुद्धे यतेरपीत्यर्थः // 36 / / इतरश्च परस्परानुगतं द्रव्यभावस्तवस्वरूपमनुमोदनादि चाऽविरुद्धमित्याह - जं च चउद्धा भणिओ, विणओ उवयारिओ उ जो तत्थ / सो तित्थगरे नियमा, न होइ दव्वत्थयादण्णो // 281 // 6/37 यच्च यस्मात् चतुर्धा चतुःप्रकारो ज्ञानदर्शनचारित्रोपचारभेदात् भणितो वर्णितो विनय औपचारिकस्तु यस्तत्र चतुर्विधविनये स औपचारिकविनयः तीर्थकरे साक्षात्सर्वज्ञे तद्धि तेष्वेव [अर्हद्विषये - अटी.] नियमान्नियमेन न भवति द्रव्यस्तवादन्योऽपरः // 37 // एयस्य उ संपाडणहेउं तह चेव वंदणाए उ / पूजणमादुच्चारणमुववन्नं होइ जतिणो वि // 282 // 638 एतस्य तु द्रव्यस्तवस्यैव सम्पादनहेतोः सम्पादननिमित्तम् / तथा चैव वन्दनायां तु चैत्यवन्दनायां पूजनाद्युच्चारणं पूजनसत्कारोच्चारणम् उपपन्नं युक्तं भवति / यतेरपि भावस्तवव्यवस्थितस्यापि // 38 // इहरा अणत्थगं तं, न य तदणुच्चारणेण सा भणिता / ता अभिसंधारणतो, संपाडणमिट्ठमेयस्स // 283 // 6/39 इतरथाऽन्यथा अनर्थकं तत् पूजनाधुच्चारणं तदर्थाभावात्, पूजनसत्कारौ हि तद् उच्चारणस्यार्थको चेदनुमति-कारणाभ्यां नेष्यते, ततोऽभिधेयाभावान्निष्प्रयोजनं तदापद्यते / न च नैव तदनुच्चारणेन पूजाद्यनुच्चारणेन सा वन्दना भणिता प्रतिपादिता / यतेः तस्मादभिसन्धारणतोऽभिसन्धेविशिष्टेच्छारूपेणाभिसन्धिना सम्पादनमनुमतिकारणाभ्याम् इष्टमभिप्रेतम् एतस्य द्रव्यस्तवस्य // 39 // यद्येवं शास्त्रोक्तत्वादुपादेयरूपो द्रव्यस्तवः शुभपरिणामहेतुत्वाच्च भावस्तवहेतुस्तत्साक्षादेव स्वयं करणतः कस्मादयं [यतीनां] नेष्ट इत्याह - सक्खा उ कसिणसंजमदव्वाभावेहि नो अयं इ8ो / गम्मति तंतठितीए, भावपहाणा हि मुणउ त्ति // 284 // 6/40