SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 86 ६-स्तवनविधि-पञ्चाशकम् गाथा-३२-३६ न य भगवं अणुजाणति, जोगं मुक्खविगुणं कदाचिदपि / न य तयणुगुणो वि तओ, न बहुमतो होति अण्णेसिं // 276 // 6/32 न च भगवांस्तीर्थकरः अनुजानात्यनुमन्यते योगं व्यापारं मोक्षविगुणं मोक्षप्रतिकूलं कदाचिदपि सर्वदैव नानुजानातीत्यर्थः / न च तदनुगुणोऽपि सर्वज्ञाभिमतोऽपि मोक्षानुगुणो वा तको योगो न बहुमतो भवत्यन्येषाम्, किन्तु बहुमत एवेष्ट एव // 32 / / इहैव भावार्थमाह - जो चेव भावलेसो, सो चेव य भगवओ बहुमतो उ। न तओ विणेतरेणं ति अत्थओ सो वि एमेव // 277 // 6/33 य एव भावलेशो द्रव्यस्तवसम्पाद्यः प्रहर्षातिशयः, स एव च भगवतो बहुमतस्तु आरम्भादिस्तु स्वयंव्यवस्थित एव तन्निवृत्तेरभावात् न तको भावलेशो विनेतरेण द्रव्यस्तवेन विना इति हेतोः अर्थतोऽर्थमाश्रित्य सोऽपि द्रव्यस्तव एवमेवानुमत एव वर्तते // 33 // कुत इत्याह - कज्जं इच्छंतेणं, अणंतरं कारणं पि इटुं तु / जह आहारजतित्ति, इच्छंतेणेह आहारो // 278 // 6/34 कार्यमिच्छता फलं वाञ्छता अनन्तरं कारणमपि तज्जनकम् इष्टं तु इष्टमेव वर्तते / कारणाविनाभावित्वात्कार्यस्य, यथाहारजामाहारजनितां तृप्तिं प्रीणनक्रियाम् इच्छताभिलषता [इहलोके-अटी.] आहार इष्टो भवतीति गम्यते // 34 // अप्रतिषेधाच्चानुमतो द्रव्यस्तव इत्याह - जिणभवणकारणाइ वि, भरहादीणं न वारितं तेण / जह तेसिं चिय कामा, सल्लविसाईहिं णाएहिं // 279 // 6/35 जिनभवनकारणाद्यपि प्राक् प्रस्तुतं भरतादीनां न वारितं न निषिद्धं तेन भगवता / यथा तेषामेव भरतादीनां कामाः कामभोगाः शल्यविषादिभिआतैः उदाहरणैः, यथोक्तम् - सलं कामा विसं कामा, कामा आसीविसोवमा।। संसार वड्डमाणा कामा कामा दोग्गइवड्डणा[ ] // 35 // ता तं पि अणुमयं चिय, अप्पडिसेहाओ तंतजुत्तीए / इय सेसाण वि एत्थं, अणुमोयणमाइ अविरुद्धं // 280 // 6/36
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy