________________ गाथा-२८-३१ ६-स्तवनविधि-पञ्चाशकम् कुत एतत्परस्परानुगतमित्याह - जइणो वि हु दव्वत्थयभेओ अणुमोयणेण अत्थि त्ति / एयं च एत्थ णेयं, इय 'सुद्धं तंतजुत्तीए // 272 // 6/28 यतेरपि द्रव्यस्तवभेदो द्रव्यस्तवविशेषः कश्चिद् द्रव्यस्तव इत्यर्थः / अनुमोदनेन भगवत्पूजासन्दर्शनसमुल्लसत्प्रहर्षविशेषरूपानुमत्या अस्तीति विद्यत एवानुमोदनाजनित इति हेतोः / एतच्च स्वरूपम् अत्र ज्ञेयम् / द्रव्यस्तवभावस्तवयोरिति, शुद्धमेव शुद्धं परस्परानुगतत्वेन तन्त्रयुक्त्यागमनीत्या // 28 // (१.सिद्धं-जे.) तंतम्मि वंदणाए, पूयणसक्कारहेउ उस्सग्गो / जतिणो वि हु निद्दिट्ठो, ते पुण दव्वत्थयसरूवे // 273 // 6/29 तन्त्रे शास्त्रे वन्दनायां चैत्यवन्दनायां पूजनसत्कारहेतोः पूजनसत्कारनिमित्तम् उत्सर्गः कायोत्सर्गः / यतेरपि हु [हु शब्दोऽलङ्कृतौ अटी.] निर्दिष्टः पठितः / ते पुनः पूजनसत्करणे द्रव्यस्तवस्वरूपे / प्राकृतत्वाद्वा बहुवचनम् / तौ पुनः पूजन-सत्कारौ द्रव्यस्तवस्वरूपौ // 29 // मल्लाइएहिं पूया, सक्कारो पवरवत्थमाईहिं। अण्णे विवज्जओ इह, दुहा वि दव्वत्थओ एत्थ // 274 // 6/30 माल्यादिभिः पूजा ग्रथिताग्रथितकुसुमैः / सत्कारः सत्क्रिया, प्रवरवस्त्रादिभिः ।अन्ये विपर्यय इह पूजासत्कारस्वरूप इति मन्यन्ते द्विधाप्युभयपक्षेऽपि द्रव्यस्तवोऽत्र पूजासत्काररूपः // 30 // ननु यतेः कथं द्रव्यस्तवभेदः ? अनुमोदनाद्वारेणास्तीत्युच्यते / कथञ्चिदारम्भरूपो ह्ययं गृहस्थविधेयस्तदनुमोदने च सर्वविरतिक्षतिप्रसङ्गः / शेषारम्भानुमतिवदिति पराभिप्रायमाशङ्क्याह - ओसरणे बलिमाई, न चेह जं भगवया वि पडिसिद्धं / ता एस अणुण्णाओ, उचियाणं गम्मई तेण // 275 // 6/31 अवसरणे समवसरणे देवनिष्पादिते, बल्यादि समयप्रसिद्धमेव / न चेह यद् भगवतापि प्रतिषिद्धं निराकृतम् / तत् तस्माद् एष द्रव्यस्तवोः अनुज्ञातोऽनुमतः उचितानामधिकारिणां गृहस्थानां राजामात्यादीनां गम्यते अवसीयते तेन भगवता // 31 //