________________ 82 ६-स्तवनविधि-पञ्चाशकम् गाथा-१७-२० द्रव्यस्तवः तद्वारेण द्रव्यस्तवमुखेन अल्पभावादल्पश्चासौ भावश्च, ततो भावाल्पत्वादित्यर्थः // 16 // एतदेवाविर्भावयितुमाह - जिणभवणादिविहाणद्दारेणं एस होति सुहजोगो / उचियाणुट्ठाणं पि य, तुच्छो जइजोगओ नवरं // 261 // 6/17 जिनभवनादिविधानद्वारेणैष द्रव्यस्तवः भवति शुभयोगः शुभव्यापारः / उचितानुष्ठानमपि च भवत्येष तुच्छो भावस्तवगतिविशिष्टशुभव्यवसायविकलः यतियोगतो यतिव्यापारात् सर्वस्मादेव स्वाध्यायादेः नवरं केवलम् / / 17 / / कथं पुनर्यतियोगात् तुच्छ इत्याह - सव्वत्थ निरभिसंगत्तणेण जइजोग मो महं होइ / एसो उ अभिस्संगा, कत्थइ तुच्छेऽवि तुच्छो उ // 262 // 6/18 सर्वत्र चेतनाचेतने द्रव्यक्षेत्रकालभावचतुष्टये वा निरभिष्वङ्गत्वेन सङ्गरहिततया, यतियोगो यतिव्यापारो मनोयोगादिः महान् एव भवति गुरुरित्यर्थः / एष तु द्रव्यस्तवः शुभयोगः अभिष्वङ्गाद् हेतोः क्वचित् स्त्र्यादौ तुच्छेऽप्यसारेऽपि स्वरूपेण तुच्छस्तु तुच्छ एव // 18 // एतदेव समर्थयन्नाह - जम्हा उ अभिस्संगो, जीवं दूसेइ नियमओ चेव / तसियस्स जोगो, विसघारियजोगतुल्लो त्ति // 263 // 6/19 यस्मात् त्वभिष्वङ्गोऽनुरागपरिणामो जीवं दूषयति विकारयति नियमत एव नियमेनैव / तषितस्याभिष्वङ्गोपद्रुतस्य योगो व्यापारो विषग्रस्तयोगतुल्य इति हेतोः / विषग्रस्तो हि यं व्यापारमारभते विह्वलत्वात्तं न सम्यगवस्थापयति / एवमस्याप्यभिष्वङ्गविषदूषितस्य विषग्रस्तपुरुषव्यापारकल्प एव व्यापारः / / 19 / / व्यतिरेकमाह - जइणो अदूसियस्सा, हेयाओ सव्वहा नियत्तस्स / सुद्धो उ उवादेए, अकलंको सव्वहा सो उ // 264 // 6/20 ___ यतेरदूषितस्य रागादिभिरविकृतस्यामलिनस्येत्यर्थः हेयात् त्याज्याद्धिसादेः सर्वथा निवृत्तस्य शुद्धस्तु शुद्ध एव उपादेये वस्तुनि सम्यग्ज्ञानादावाज्ञाप्रवृत्त्या अकलङ्को दोषरहितः सर्वथा