________________ 81 गाथा-१३-१६ ६-स्तवनविधि-पञ्चाशकम् तत् तस्माद् भावस्तवहेतुर्भावस्तवकारणं परम्परया / यः द्रव्यस्तवः हेतो[इष्टो]ऽभिमतः, यस्तु यः पुनर्नैवम्भूतो योग्यताविकलत्वेन, सोऽप्रधानो द्रव्यस्तवः, परं केवलं भवति / अप्रधानवृत्तित्वाद् द्रव्यशब्दस्य // 12 // अप्पाहण्णे वि इहं, कत्थइ दिट्ठो उ दव्वसद्दो त्ति / अंगारमद्दगो जह, दव्वायरिओ सदाऽभव्वो // 257 // 6/13 अप्रधानेऽपीह शास्त्रे क्वचित् प्रदेशे दृष्टस्तु द्रव्यशब्द इति हेतोः / अङ्गारमर्दको यथा द्रव्याचार्योऽप्रधानाचार्यः सदा सर्वदा अभव्योऽभव्यजीवस्वरूपो भव्यराशेरूत्तीर्णत्वेन // 13 / / अप्पाहण्णा एवं, इमस्स दव्वत्थवत्तमविरुद्धं / आणाबज्झत्तणओ, न होइ मोक्खंगया नवरं // 258 // 6/14 अप्राधान्याद् हेतोः एवमस्यागमनिरपेक्षद्रव्यस्तवस्य प्रागुक्तद्रव्यस्तवत्वमप्रधानस्तवत्वम् अविरुद्धमविरोधवत् / आज्ञाबाह्यत्वादागमविकलत्वात् न भवति मोक्षाङ्गता मोक्षहेतुता / नवरं केवलमागमोक्तस्यैव मोक्षाङ्गत्वाभ्युपगमात् // 14 // तत्किमस्मादप्रधानद्रव्यस्तवात् किञ्चित् फलं नास्तीत्याशङ्क्याह - भोगादिफलविसेसो, उ अत्थि एत्तो वि विसयभेदेण / तुच्छो उ तगो जम्हा, हवति पगारंतरेणावि // 259 // 6/15 भोगादिफलविशेषस्तु भोगोपभोगसम्पत्तिप्रभृतिफलभेदस्तु, अस्ति विद्यते सम्भवति अतोऽप्यप्रधानद्रव्यस्तवाद् विषयभेदेन वीतरागसर्वज्ञादिपूजारूपेण तुच्छस्तु फलमाश्रित्य स्वल्पस्तु वर्तते / तकः स भोगादिफलविशेषः यस्माद् भवति प्रकारान्तरेणाप्यकामनिर्जरा-बालतपोऽनुकम्पादिना // 15 // ननु च द्रव्यस्तवयोः [= प्रधानाऽप्रधानयोः] शास्त्रोक्तत्वेन शुभपरिणामहेतुत्वे समाने सति कस्मादयं [आज्ञाप्रधान द्रव्यस्तवः] भावस्तव एव न भवतीत्येतदाशङ्क्याह - उचियाणुढाणाओ, विचित्तजइजोगतुल्ल मो एस / जं ता कह दव्वत्थओ ? तद्दारेणऽप्पभावाओ // 260 // 6/16 उचितानुष्ठानाच्च स्वभूमिकायोग्यविहितानुष्ठानरूपत्वाद् विचित्रयतियोग्य[ग]तुल्य एव एष वर्तते ['तुल्ल मो' तुल्यः, मकारोऽत्र प्राकृतशैलीभवः - अटी.] | स्वाध्यायध्यानादियतिव्यापारसमानतया तद्वदागमविहितत्वादेवायं विधीयते / यद् यस्मात् [तत् तस्मात्-अटी.] कथं