________________ 80 ६-स्तवनविधि-पञ्चाशकम् गाथा-९-१२ उचितं खलूचितमेव कर्तव्यं विधेयं सर्वत्र क्षेत्रादौ सदा सर्वकालम् / नरेण पुरुषेण बुद्धिमता विवेकिना इति, फलसिद्धिरेवं कार्यनिष्पत्तिः नियमान्नियमेन / एषैव च भवत्याज्ञा भवत्युचित करणरूपा / न ह्यनुचितानुष्ठानप्रवृत्तो भगवदाज्ञामाराधयति // 8 // जं पुण एयविउत्तं, एगंतेणेव भावसुण्णं ति / तं विसयम्मि वि न तओ, भावथयाहेउओ णेयं // 253 // 6/9 यत्पुनरेतद्वियुक्तमाज्ञाराधनावियुक्तम्, एकान्तेनैवाज्ञानुसार(सारित्व)विरहेण स्वाग्रहप्रवृत्त्या गुणदोषालोचननिरपेक्षया भावशून्यमिति क्षायोपशमिकभावशून्यमौदयिकभावप्रवृत्त्या ज्ञानो [ज्ञानावरणीयकर्मो]पशमादिविरहात् तद् अनुष्ठानं, विषयेऽपि वीतरागादौ न तको न द्रव्यस्तवो भावस्तवाहेतुतो भावस्तवाकारणत्वेन भावप्रधानत्वान्निर्देशस्यैवं [ज्ञेयम्] अवगन्तव्यम् // 9 // कथं पुनः द्रव्यस्तवो भावस्तवहेतुरिव सन्, नाऽभिमतः इत्याह - समयम्मि दव्वसद्दो, पायं जं जोग्गयाए रूढो त्ति / निरुवचरितो उ बहुहा, पओगभेओवलंभाओ // 254 // 6/10 समये सिद्धान्ते द्रव्यशब्दो द्रव्यार्थाभिधायी ध्वनिः प्रायो बाहुल्येन यद् यस्माद् योग्यतायां योग्यतावाचित्वे रूढः प्रसिद्धिमुपगतः इति हेतोः निरूपचरितस्तूपचरितान्निष्क्रान्तो निरूपचरितोऽनुपचरित इत्यर्थः बहुधाऽनेकधा प्रयोगभेदोपलम्भात् प्रयुक्तिविशेषदर्शनात् // 10 // एतदेव निदर्शनद्वारेण आह - मिउपिंडो दव्वघडो, सुसावगो तह य दव्वसाहु त्ति / साहू य दव्वदेवो, एमादि सुते जओ भणियं // 255 // 6/11 मृत्पिण्डो द्रव्यघटो घटपरिणामहेतुत्वात् तस्यैव तथाभवनात् / सुश्रावकः तथा च द्रव्यसाधुरिति सुन्दरदेशविरतिपरिणामभावितस्य साधुपरिणामभवनात् प्रत्यासत्त्या देशविरतिकण्डकेभ्यः सर्वविरतिकण्डकप्राप्तेः / बाहुल्यापेक्षया तस्यैव तथावृत्तेः / साधुश्च द्रव्यदेवो देवायुर्निबन्धभाजनत्वेन / एवमादि, आदिशब्दाद् द्रव्यनारकपरिग्रहः / श्रुते यतो भणितं द्रव्यशब्दमाश्रित्य // 11 // प्रस्तुतद्रव्यस्तवस्वरूपनिगमनायाह - ता भावत्थयहेऊ, जो सो दव्वत्थओ इहं इट्ठो / जो उ न एवंभूओ, स अप्पहाणो परं होति // 256 // 6/12