________________ गाथा-४-८ ६-स्तवनविधि-पञ्चाशकम् कथं पुनरेतत् तद्धेतुता प्रतिपद्यते इत्याह - विहियाणुढाणमिणं ति एवमेयं सया करेंताणं / होइ चरणस्स हेऊ, नो इहलोगादवेक्खाए // 248 // 6/4 विहितानुष्ठानं पूर्वपुरुषकृतसुन्दरानुष्ठानम् इदमित्येवमागमाकाराय बुद्ध्या / एवमेतज्जिनभवनादि सदा कुर्वतां / भवति चरण[स्य]चारित्रपरिणामस्य हेतुः / व्यवच्छेद्यमाह-नो नैव इहलोकाद्यपेक्षयाऽस्मदनुष्ठानादिहलोके मनुष्यभवे, आदिशब्दात् परलोके देवस्य भवे वा ममेदं फलं भविष्यतीति, एतत्परिहारेण चरणस्य हेतुः // 4 / / एवं चिय भावथए, आणाआराहणाउ रागोऽवि / जं पुण इयविवरीयं, तं दव्वथओ वि नो होइ // 249 // 6/5 एवमेवोक्तयैव बुद्ध्या, भावस्तवे भावस्तवविषये / आज्ञाराधनात् आगमाराधनात् रागोऽप्यनुरागोऽपि बहुमान इत्यर्थः / यत्पुनर्जिनभवनादि एतद्विपरीतं विहितानुष्ठानबुद्धिविपरीतम्। तद् द्रव्यस्तवोऽपि न भवति भावस्तवाऽकारणत्वात् / / 5 / / भावे अतिप्पसंगो, आणाविवरीयमेव जं किंचि / इह चित्ताणुट्ठाणं, तं दव्वथओ भवे सव्वं // 250 // 6/6 भावे द्रव्यस्तवस्य अतिप्रसङ्गोऽतिव्याप्तिरनिष्टापत्तिरित्यर्थः / आज्ञाविपरीतमेवागमविपर्यस्तमेव तन्निराकृतमित्यर्थः / यत्किञ्चिदनियतस्वरूपम् इह चित्रानुष्ठानं हिंसादि तद् द्रव्यस्तवो भवेत् सर्वमविशेषेण // 6 // जं वीयरागगामी, अह तं नणु गरहियं पि हु स एवं / सिय उचियमेव जं तं आणाआराहणा एवं // 251 // 6/7 यद्वीतरागगामि यद्वीतरागविषयम्, अथ तदनुष्ठानं हिंसादि तद्रव्यस्तवो भवतीति सम्बध्यते। ननु गर्हितमपि तन्निन्दादिः स द्रव्यस्तव एवं प्राप्नोति / स्यादेतत्परमतमाशङ्कते / उचितमेव यदनुष्ठानं जिनपूजादि तद् द्रव्यस्तवः आज्ञाऽऽराधनागमाराधना / एवं द्रव्यस्तवः प्राप्तः, स चास्माभिरिष्ट एव // 7 // पूर्वोक्तमेव व्यनक्ति उचियं खलु कायव्वं, सव्वत्थ सया नरेण बुद्धिमता / इय फलसिद्धी नियमा, एस च्चिय होइ आण त्ति // 252 // 6/8