________________ // षष्ठं स्तवनविधि-पञ्चाशकम् // पूजानन्तरं प्रत्यासत्त्या प्रत्याख्यानमभिहितं पुनः पूजाविशेषरूपत्वात् द्रव्य-भावस्तवयोः स्वरूपनिर्णयार्थमिदमाह - नमिऊण जिणं वीरं, तिलोगपुज्जं समासओ वोच्छं / थयविहिमागमसुद्धं, सपरेसिमणुग्गहट्ठाए // 245 // 6/1 नत्वा मनो-वाक्-कायव्यापारसमानकर्तृकत्वमुपदर्शयन् क्तान्तेन 'वक्ष्ये' क्रियापदमभिसम्बध्नाति / नमस्कृत्य जिनं जितरागादिदोषसमुदयं वीरं महाविक्रमं त्रिलोकपूज्यं देवासुरमनुजपूजनीयं समासतः सङ्केपेण वक्ष्येऽभिधास्ये। स्तवविधिं स्तवप्रकारम् आगमशुद्धं सम्यक्परिच्छेदावदातं स्वपरयोनुग्रहार्थमनुग्रहकाम्यया // 1 // स्तवविधिमेवाह दव्वे भावे य थओ, दव्वे भावथयरागओ सम्मं / जिणभवणादिविहाणं, भावथओ चरणपडिवत्ती // 246 // 6/2 द्रव्ये भावे च स्तवः पूजाविशेषो द्रव्ये द्रव्यविषयः स्तवः / किमुच्यत ? इत्याहभावस्तवरागतो भावस्तवानरागात सर्वविरतिबहमानात / सम्यगवैपरीत्येन जिनभवनादिविधानम्, आदिशब्दाद् बिंबादिपरिग्रहः / भावस्तवः चरणप्रतिपत्तिः सर्वविरत्यभ्युपगमस्तत्प्रतिज्ञेति यावत् // 2 // द्रव्यस्तवस्वरूपप्रतिपिपादयिषयाऽऽह - जिणभवणबिंबठावणजत्तापूयादि सुत्तओ विहिणा / दव्वत्थउ त्ति णेयं, भावत्थयकारणत्तेण // 247 // 6/3 जिनभवनं सिद्धायतनम्, बिम्बस्थापनं प्रतिमाप्रतिष्ठा, यात्रा जिनमहोत्सवः पूजा पुष्पवस्त्रादिभिः / जिनभवन-बिम्बस्थापन-यात्रा-पूजादि-समाहारस्यैकत्वादेकवचनम् / सूत्रतः सूत्रादागमाद् विधिना कर्तव्योपदेशरूपेण द्रव्यस्तव इति ज्ञेयं ज्ञातव्यं / भावस्तवकारणत्वेन सर्वविरतिपरिणामहेतुत्वेन, तदेव ह्यागमात् क्रियमाणं सर्वविरतिहेतुतां प्रतिपद्यते / तदनुरागत एव तत्र प्रवृत्तेः, न तन्निरपेक्षः परिणामो द्रव्यस्तवो नाम // 3 / /