SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 77 गाथा-४९-५० ५-प्रत्याख्यानविधि-पञ्चाशकम पुनरपि प्रत्याख्यानस्य निर्विषयतापरिहारार्थमाह - आहेणाविसयं पि हु, न होइ एयं कहंचि नियमेण / मिच्छासंसज्जियकम्मओ तहा सव्वभोगाओ // 243 // 5/49 ओघेन सामान्येन अविषयमपि विषयरहितमपि / हु शब्दो वाक्यालङ्कारे / न भवत्येतत् प्रत्याख्यानम्, किन्तु स्वविषयमेव न कथञ्चित् केनचित् प्रकारेण कर्मवैचित्र्यलक्षणेन / नियमेनावश्यंतया / कुत इत्याह-मिथ्यासंसज्जितकर्मतस्तथा सर्वभोगात् / मिथ्याभावेन संसज्जितम्, आसज्जितम् परिप्रापितम् जीवप्रदेशेषु यत्कर्म तत्तथोच्यते / इदमुक्तं भवति-जीवेन ह्यनेकविधानि कर्माण्यनेकफलानि विहितानि, तद्विपाकदोषाद् अनिच्छन्नपि सर्वं वस्तूपनतमुपभुङ्क्तेऽनाभोगात् / तेन सर्ववस्तुविषयसम्भोगसम्भवमाकलयद्भिः सर्वमेव वस्तु प्रत्याख्यानस्य विषयीक्रियते / तेनैकान्तविषयं तं (तद्) न भवति // 49 // (1. संसंजित अटी.) ___ ननु यद्यैवं स्वकृतकर्मफलविपाकमनुभवद्भिः प्राणिभिः सर्वमेव वस्तुविषयीकृत्य प्रत्याख्यानं क्रियते, ततो विरतिभङ्गः स्यात् कर्मण्यन्यथावेदनाद्वा / स्वफलदानासामर्थ्यम्, तत्र विरतिपक्षे कर्मण उपक्रमणीयस्वभावत्वेनान्यथावेदनेऽपि प्रत्याख्यानं सफलमुपदर्शयन्नाह - विरतीए संवेगा तक्खयओ भोगविगमभावेण / सफलं सव्वत्थ इम, भवविरहं इच्छमाणस्स // 244 // 5/50 विरतौ सत्यां विरतेर्वा संवेगाद्धेतोस्तत्क्रियते / मिथ्यासंसज्जितकर्मक्षयतः संवेगस्याचिन्त्यसामर्थ्य-समन्वितत्वेन भोगविगमभावेन पूर्वमिथ्याकर्मपरिप्रापितभोगफलपरिक्षयसद्भावेन फलभावेन इति यावत् / सफलं विद्यमानफलं प्रत्याख्यातुः सर्वत्र द्रव्यक्षेत्रकालादौ इदं प्रत्याख्यानं भवविरहम् संसारविरहं इच्छतः सतः साधोरन्यस्य वा // 50 // (1 इच्छमाणेणं जे.) // प्रत्याख्यानविधि-पञ्चाशकं पञ्चमं सम्पूर्णम् //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy