SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 76 ५-प्रत्याख्यानविधि-पञ्चाशकम् गाथा-४६-४८ षष्ठाष्टमदशमद्वादशैः समयोक्तैः तपोविशेषैः मासार्धमासक्षपणैश्च / व्यक्तिबहुत्वाद् बहुवचनम् / एतैर्युक्तोऽपीति गम्यते / अकुर्वन् गुरुवचनमाज्ञाभङ्गेन अनन्तसांसारिको भवति, भयांसं संसारं निवर्तयतीत्यर्थः // 46 / / भावप्राधान्येन किञ्चिदुपदिशन्नाह - बज्झाभावेऽवि इमं, पच्चक्खंतस्स गुणकरं चेव / / आसवनिरोहभावा, आणाआराहणाओ य // 241 // 5/47 बाह्याभावेऽपि आहारविषयविशिष्ट पदार्थाभावेऽपि, सामान्येन वा धनधान्याद्यभावे अपीदं प्रत्याख्यानं प्रत्याचक्षाणस्य प्रत्याख्यातुः गुणकरं चैव गुणकरणशीलमेव भावविशुद्धहेतुत्वेन, आश्रवनिरोधभावाद्धेतोहिंसाद्याश्रवद्वारनिवृत्तिसद्भावात् / [आदिपदेन अनुबन्धहिंसा ज्ञेया] / आज्ञाराधनातश्चाज्ञा भागवतीशास्त्ररूपा तत्परिपालनातश्च / आश्रवनिरोधो हि स्वसंवेदनेनानुभूयते / सत्स्वसत्सु वा बाह्यपदार्थेषु आज्ञाविराधनापि शब्दप्रत्याख्येयविषयत्वेन प्रसिद्धाः, अन्यथा हि न सर्वविषयं प्रत्याख्यानमाद्रियते / यान्येव स्वाधीनानि वस्तूनि तेष्वेव प्रत्याख्यानादरो भवेत् / सामान्येन च सर्वतोऽपि विरतिः श्रूयते जिनागमे तस्मान्न स्वाधीनमात्रविषयमेतत् // 47 // अस्यैव समर्थनायाह - न य एत्थं एगंतो, सगडाहरणादि एत्थ दिटुंतो / संतं पि नासइ लहुं, होइ असंतं पि एमेव // 242 // 5/48 न चात्राप्येकान्तो यदुत बाह्यस्य सद्भाव एव / सद्भाव एवैकान्तेन शकटोदाहरणाद्यत्र दृष्टान्तस्तदुदाहरणमेवं श्रूयते-केनचित् ब्राह्मणेन नानाविधप्रत्याख्यानग्रहणे गृहस्थैः क्रियमाणेऽसम्भवविषयत्वेन धर्मफलमुपहास्यबुद्धिविषयं मन्यमानेन / यद्यसत्यपि वस्तुनि प्रत्याख्याये नियमं कुर्वतां धर्मः सम्पद्यते / ततो मम शकटभक्षणप्रत्याख्यानं भवन्नीत्याऽस्त्विति गृहीतम्, तस्य चान्तराले बहुभिर्वषैरतीतैः / कदाचित् कान्तारोत्तीर्णस्यातिबुभुक्षितस्य कदाचित् राजपुत्र्या समुत्सवननिमित्तं ब्राह्मणमन्वेषमाणया पक्वान्नीकृतशकटं भोजनपात्र्यां न्यस्तम् / ततस्तद् दृष्ट्वा स चिन्तयामास-साधूक्तं साधुभिः सर्वस्यापि वस्तुनः सम्भवोऽस्तीति सविषयमेव सर्वं प्रत्याख्यानम् / तदिदमनुप्राप्तं कथमहं स्ववाक्प्रतिज्ञाया लोपं करिष्यामीति परिहृतवान् तत्सम्बोधनार्थं च स्ववार्ता कथितवानिति सक्षेपतो दृष्टान्तः / एतदेव स्फुटीकरोति सदपि विद्यमानमपि वस्तु स्वगृहादौ नश्यत्यपैति भाग्यविपर्ययेण, [लघु शीघ्रम् अटी.] भवत्यसदपि पूर्वमविद्यमानमपि एवमेव पुण्योदयेन, तस्मान्नाकान्तः // 48 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy