________________ 75 गाथा-४४-४६ ५-प्रत्याख्यानविधि-पञ्चाशकम अनुबन्धभावे च विधिसमायुक्तमित्युक्तम्, [5-4 गाथायाम्] तत्प्रकटनायाह - भोत्तूणमुचियजोगं, अणवरयं जो करेइ अव्वहिओ। नियभूमिगाइ सरिसं, एत्थं अणुबंधभावविही // 238 // 5/44 भुक्त्वा प्रत्याख्यानपरिपूर्तेरनन्तरम्, उचितयोगमुचितव्यापारं स्वाध्यायध्यानादिकम् / अनवरतं सततं यः करोत्यव्यथितोऽपीडित एव विधत्ते / निजभूमिकायाः सदृशं स्वभूमिकानुगतम्, अत्र प्रक्रमे / अनुबन्धभावविधिरयं कुशलप्रवाहाविच्छेदभावविधिरिह च यः करोत्युचितयोगमित्य-भिधानेऽपि न वाक्यपरिपूर्णता, तेनार्थात्तस्येति गम्यते / तस्यायमनुभावयोविधिः / परमार्थतः सातत्येन तत्प्रत्याख्यानमेवमनुपालितं भवति यदि भोजनानन्तरमुचितयोगं स्वाध्यायादिकं विधत्ते / गुरूपाध्याय-प्रवर्ति-स्थविर-गीतार्थ-साधु-श्रावकयोग्यम्, अन्यथा भोजनस्याऽकिञ्चित्करत्व-प्रसक्तेः / तत्त्वेवमर्थमाश्रीयते धर्माणिभिर्यथा तेनोपबृंहितानां विशिष्टगुणलाभः, तदभावे तु भोजनमभोजनमेवातत्फलत्वात् स्यात् / तस्मादनुबन्धमिच्छताऽवश्यमेवोचितयोगो विधेयो भावविधिसमा-युक्तत्वमपि प्रत्याख्यानस्यानुबन्धस्वरूपप्रदर्शनेनैवावेदितं द्रष्टव्यम् / भावप्रधानं ह्येवं त्रिविधमेव तद् भवति ततस्तत्प्रतिपादनेनैव सर्वत्र भाव उपलक्षितो भवति // 44 // __ पुरुषभूमिकापेक्षया देशकालौचित्यापेक्षया च स्वाध्यायादिपरिहारेणापि व्यापारान्तरस्य निर्जराहेतुत्वमुपदर्शयन्नाह - गुरुआएसेणं वा, जोगंतरगं पि तदधिगं तमिह / 'गुरुआणाभंगम्मी, सव्वेऽणत्था जओ भणितं // 239 // 5/45 गुर्वादेशेन वा सर्व एव गौरवार्हा गुरुत्वात् प्रन्य(प्रधान)स्थानीयास्तदादेशेन तदाज्ञया योगान्तरमपि स्वाध्यायादिवृद्धिहेतुं वस्त्रपात्रपरिकर्मरूपं करोतीति पूर्वेण सम्बन्धः / तदधिकं ततः स्वाध्यायादिरधिकं तत्काले तदिह योगान्तरं वर्तते / गुरुभिरादिष्टमन्यदपि योगान्तरं करोत्येवम् / तेनाप्यनुबन्धशुद्धताप्रत्याख्यानस्य स्वाध्यायादिवत् तस्याऽपि कर्मक्षयफलत्वात् / गुर्वाज्ञाप्रतिपालनमेव च सर्वत्र कर्मक्षयफलम् / यतो गुर्वाज्ञाभङ्गे गुर्वादेशान्यथाकरणे सर्वेऽना सम्भवतीति दृश्यम्, प्रत्युक्तत्वाद्, यतो भणितमेतदागमान्तरे // 45 // (1. गुरुआणाभंगम्मि य-शा.) तदेवाह - छट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं / अकरेंतो गुरुवयणं, अणंतसंसारिओ होति // 240 // 5/46