________________ 74 ५-प्रत्याख्यानविधि-पञ्चाशकम गाथा-४२-४३ एवं भावसाधूनां अङ्गीकृत्य स्वयंपालनोक्ता सह दानोपदेशाभ्याम्, अधुना श्रावकानुररीकृत्याहएवमिह सावगाण वि, दाणुवएसादि उचियमो णेयं / सेसम्मि वि एस विही, तुच्छस्स दिसादवेक्खाए // 236 // 5/42 एवमिह प्रत्याख्यानकरणे श्रावकाणामपि सम्यग्दृष्ट्यादीनां दानोपदेशादिशब्दात् प्रोत्साहनादिग्रहः / उचितमेव ज्ञेयमवबोद्धव्यम् / शेषेऽप्याहारप्रत्याख्यानाधिकारादन्यस्मिन् दानोपदेशादौ / वस्त्रादिविषये एष विधिः वक्ष्यमाणः तुच्छस्य विभवमाश्रित्य दिगाद्यपेक्षया दानोपदेशादीति वर्तते / दिश्यन्ते तामिति दिग् गच्छोऽभिधीयते / आदिशब्दात्कुलगणपरिग्रहः / वस्त्रादिदाने हि निविभवस्य दिगाद्यपेक्षा, महाधनसम्पन्नस्य पुनरुदाराशयस्य न काचिदियम् // यतः - सड्डेणं सति विभवे, साहूणं वत्थमाइ दायव्वं / गुणवंताणऽविसेसा तुच्छस्स दिसादवेक्खाए / [प्रत्याख्यानस्वरूपं गाथा-२६६] प्रकटोऽयमागमः // 42 / / एष विधिरित्यस्य विवरणायाह - संतेयरलद्धिजुएयरादिभावेसु होइ तुल्लेसु / दाणं दिसाइभेए, तीएऽदेंतस्स आणादी // 237 // 5/43 एकस्य सद्वस्त्रादि, अपरस्य त्वसदविद्यमानम् / एको लब्धियुक्तः साधुरसदपि लब्धियक्तत्वाल्लभते / इतरस्त्वलब्धियतो न लब्धिसम्पन्नः / आदिशब्दात क्लेशाऽक्लेशस्वपक्षपरपक्ष लब्धियुक्तत्वपरिग्रहः / एतदादिभावेषु साधुगतविशेषेषु भवति विधेयतया, तुल्येषु सत्सु दानं वितरणं प्राज्ञस्य दातुरधिकारिणश्च दिगाद्यभेदे सति न दिगाद्यपेक्षया, साधुगतविशेषेषु सत्सु, यत्र यत्र धर्मं प्रत्यनिर्वाह्ये धर्माधिकारिणस्तत्र तत्र दानं प्रवर्तयितव्यम् / धर्मक्षतिमनपेक्ष्य तया दिगाद्यपेक्षया' ऽददतः सतः / आज्ञादयो दोषाः आज्ञाभङ्ग, अनवस्था, मिथ्यात्व, विराधनालक्षणाः समयोक्ताः / दानधर्माधिकारी चायं - __ [1. अथ तुल्येऽपिभावे दिशमतिक्रम्य ददतः किंस्यादित्याह-तया दिशा। अददतोऽप्रयच्छतो। आज्ञादय... दोषा भवन्ति / 'दाणं दिसाए'त्ति पाठान्तरं / तत्र तुल्येषूक्तभावेषु दानं दिशा देयं भवति, अटी.] (1. दिसाए. अटी.) गुरुणाऽणुण्णायभरोणाओ वज्जियधणो य एयस्स। दायाऽतुच्छपरियणवग्गो सम्मं दयालू य // [विंशतिर्विशिका गाथा-१३६ ] // 43 //