________________ 83 गाथा-२१-२४ ६-स्तवनविधि-पञ्चाशकम् सर्वप्रकारैः स तु यतियोगः // 20 // दृष्टान्तद्वारेणानयोश्चैव विशेषप्रतिपादनायाह - असुहतरंडुत्तरणप्पाओ दव्वत्थओऽसमत्तो य / नइमाइसु इयरो पुण, समत्तबाहुत्तरणकप्पो // 265 // 6/21 अशुभतरकाण्डोत्तरणप्रायः काण्डकोपचितशाल्मली तरुकाण्डोत्तरणतुल्यः द्रव्यस्तवोऽसमाप्तश्च, द्रव्यस्तवादेव न मोक्षनिष्पत्तेः / नद्यादिषु नदीह्रदप्रभृतिषु / इतरः पुनर्भावस्तवः समाप्तः स्वयमेव परिपूर्णो वा बाहूत्तरणकल्पोऽशुभतरकाण्डादिपरिहारेण न हि भावस्तवसम्पन्नोऽन्यतरकाण्डं समीहते, तस्यैव स्वकार्यनिवर्तनक्षमत्वात् // 21 // दृष्टान्तभूयस्त्वदिगुपदर्शनार्थमाह - कडुओसहाइजोगा, मंथररोगसमसन्निभो वा वि / पढमो विणोसहेणं, तक्खयतुल्लो च बिइओ उ // 266 // 6/22 कटुकौषधादियोगाद्, आदिशब्दात् शिरावेधक्षारपातादिग्रहः / मन्थररोगसमसन्निभो वापि दीर्घकाल-सम्पात्यरोगप्रशमतुल्यः प्रथमो द्रव्यस्तवः, विनौषधेन तत् क्षयतुल्यश्च रोगक्षयतुल्यः द्वितीयस्तु भावस्तवः। द्रव्यस्तवाद्धि न सर्वथा रोगोच्छेदः / तेन रोगप्रशमसाधर्म्यमभिहितम्, भावस्तवस्तु सर्वथा रोगक्षयकारीत्येवमभिधानम् // 22 // द्रव्यस्तवजन्यफलविशेषप्रतिपादनायाह - पढमाउ कुसलबंधो, तस्स विवागेण सुगतिमादीया / तत्तो परंपराए, बितिओ वि हु होइ कालेण // 267 // 6/23 प्रथमाद् द्रव्यस्तवात् कुशलबन्धः पुण्यबन्धः तस्य विपाकेनानुभावेन फलप्रदानसामर्थ्येन। सुगत्यादयो देव-मनुजगति-सम्पत्ति-सौभाग्यादयः सम्भवन्तीति शेषः ततो द्रव्यस्तवात् परम्परयाऽविच्छिन्नसन्तानरूपया द्वितीयोऽपि भावस्तवोऽपि हुर्वाक्यालङ्कारे भवति जायते कालेन कियतापि व्यतिक्रान्तेन कालस्यापि तथाभव्यत्वपरिपाकहेतुत्वादेवमभिधानम् // 23 / / कथं पुनर्द्रव्यस्तवाद् भावस्तवो गरीयानित्याशङ्क्याह - चरणपडिवत्तिरूवो, थोयव्वोचियपवित्तिओ गुरुओ। संपुण्णाणाकरणं, कयकिच्चे हंदि उचियं तु // 268 // 6/24 चरणप्रतिपत्तिरूपश्चरणाभ्युपगमरूपः / स्तोतव्योचितप्रवृत्तितो गुरुकः, स्तोतव्ये भगवति