SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ गाथा-३५-३६ ५-प्रत्याख्यानविधि-पञ्चाशकम् 71 __ अप्रमादवृद्धिजनकमेतदाहारप्रत्याख्यानमत्रेति जैनमार्गे दर्शितमेतत् पूर्वं प्राक् तद्भोगमात्रकरणे पानाहारपरिभोगमात्रनिवर्तने [सति-अटी.] शेषत्यागादशनादित्रयत्यागात्, तकोऽसावप्रमादः अधिको वर्तते त्रिविधाहारप्रत्याख्याने[अधिकः सर्वविरतिसामायिकप्रतिपत्तिप्रभवाऽप्रमादापेक्षया अर्गलतरः - अटी.] / तेन यतेरपि [न] कश्चिद्दोषः सूत्रानुसारितया प्रवृत्तेः, तस्य च सर्वानुग्रहपरत्वात् / शक्तानां तु स्वयंकरणमधिकृत्य चतुर्विधाहारत्यागोऽपि न निवार्यते, न तु प्ररूपणमङ्गीकृत्यैष न्यायो विद्वत्प्रवृत्तिश्च साधनमत्र / ते हि यथामार्ग प्रवर्तमानाः शास्त्राराधनपरा एव // 34 // पुनरप्याह परः - एवं कहंचि कज्जे, दुविहस्स वि तन्न होति चिंतमिदं / सच्चं जतिणो णवरं, पाएण न अण्णपरिभोगो // 229 // 5/35 एवमप्रमादवृद्धिजनकत्वेनाहारप्रत्याख्याने भेदसेवनेऽभ्युपगम्यमाने, कथञ्चित् केनचित् प्रकारेण देशकालरोगाद्यपेक्षया, कार्ये ग्लानत्वादौ द्विविधस्याप्याहारस्याशनखाद्य[खादिम]गतस्य तत्प्रत्याख्यानं न भवति चिन्त्यमिदं भवत्येवेति[परा]भिप्रायः सूरिराह सत्यमवितथमेतत् - यतेः साधोः शरीरापाटवादाविष्यत एव / द्विविधस्यापि प्रत्याख्यानमागमानुसारितया अनुमतत्वान्न बाधकमस्माकम् / नवरं केवलं प्रायेण बाहुल्येन, यतेः नान्यपरिभोगो न स्वाद्यपरिभोगः पुष्टालम्बनमन्तरेण तथा प्रवृत्तेरभावात् संसारविरक्तत्वात्तस्यैव यतिधर्माधिकारित्वादन्यस्य त्वनधिकृतत्वात् मध्यस्थो बुद्धिमानर्थी शास्त्रेऽधिक्रियत इति विद्वत्प्रवादः // 35 // उक्तं भेदद्वारम्, अधुना भोगद्वारमाह - विहिणा पडिपुण्णम्मी, भोगो विगए य थेवकाले उ / सुहधाउजोगभावे, चित्तेणमणाकुलेण तहा // 230 // 5/36 विधिनागमोक्तेन प्रतिपूर्णे प्रत्यासन्ने, भोगः आहारपरिभोगः, विगते च स्तोककाले तु परिपूर्णतानन्तरं विगत एव कियत्यपि क्षणमात्रे। 'पूर्णेऽपिस्तोककालावस्थानात्तीरितं भवति वचनात् / शुभधातुयोगभावे शुभानां वायुपित्तकफधातूनां भावे भवने, शुभयोगानां च कुशलमनोवाक्कायव्यापाररूपाणां भावे। चित्तेन मनसाऽनाकुलेनाव्याक्षिप्तेन, तथा चित्तेन चाकुलेन व्याकुलचित्ताहारपरिभोगेन दोषसद्भावात्-उक्तं च सुश्रुते चिकित्साशास्त्रे ईर्ष्याभयक्रोधपरिष्कृतेन, लुब्धेन तृड्दैन्यनिपीडितेन / प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति // 36 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy