________________ 70 ५-प्रत्याख्यानविधि-पञ्चाशकम गाथा-३१-३४ तुलसी सुरसा / कुहेटकः प्रसिद्ध एव तावादी यस्य तत्तथा सुरसा-कुहेटकादि च द्रव्यजातम् / मधु-पिप्पली-सुंठ्यादि चानेकधा स्वादिमं भवति, स्वाद्यमित्यर्थः // 30 // (1. यष्टिमधुः / ) अशनादिगतव्यापकन्यायोपदर्शनायाह - लेसुद्देसेणेते, भेया एएसि दंसिया एवं / एयाणुसारओ च्चिय, सेसा सयमेव विण्णेया // 225 // 5/31 लेशोद्देशेन स्वल्पसामान्याभिधानेनैते भेदा ओदनसौवीरादयः / एतेषामशनादीनां दर्शिता उक्ता एवमुक्तनीत्या एतदनुसारत एव प्रदर्शितभेदानुसारत एव शेषा एतज्जातीयाः, स्वयमेव स्वबुद्ध्यैव विज्ञेया यथास्वमनुक्ताः // 31 // अप्रमादवृद्धिजनकत्वमात्रमेवाहारप्रत्याख्यानस्य दर्शयन्निदमाह - तिविहाइभेयओ खलु, एत्थ इमं वणियं जिणिंदेहिं / एत्तो च्चिय भेएसु वि, सुहुमं ति बुहाणमविरुद्धं // 226 // 5/32 त्रिविधादिभेदतः खल्वादिशब्दाच्चतुर्विधग्रहः, अत्राधिकारे इदं प्रत्याख्यानं वर्णितं कथितं जिनेन्द्रैः क्षीणराग-द्वेष-मोहैः समुत्पन्नकेवलज्ञानैर्भगवद्भिः / अत एव हेतोः भेदेष्वपि परिहार्यद्रव्यगतेषु सूक्ष्ममितिकृत्वा प्रमादपरिहारस्यानेकधा सूक्ष्मत्वात् शास्त्रोक्तं प्रत्याख्यानम्, बुधानामविरुद्धं विदुषामप्रतिषेधनीयम् / सर्वविरतावनाहारभेदप्रत्याख्यानं सम्भवतीति भावः // 32 // अण्णे भणंति जतिणो, तिविहाहारस्स न खलु जुत्तमिणं / सव्वविरइओ एवं, भेयग्गहणे कहं सा उ? // 227 // 5/33 अन्ये दिगम्बरादयः भणन्ति प्रतिपादयन्ति / यतेः साधोस्त्रिविधाहारस्य पानकरहितस्य, न खलु [युक्तं-सङ्गतम् अटी.] प्रयुक्तमिदं नैव युक्तं प्रत्याख्यानं सर्वविरतितः सर्वविरतेः एवं त्रिविधाहारप्रत्याख्यानं भेदग्रहणे वान्याहारपरिवर्जनेऽपि शेषग्रहणे कथं नैवेति गम्यते सा तु तु शब्दः पुनः शब्दार्थः / सा सर्वविरतिः कथं पुनरेवं भवति, साकल्येन सर्वस्मादाहाराद्विरत्यनुपपत्तेः // 33 // एवं पराभिप्रायमाशङ्क्य परिहरन्नाह - अपमायवुड्डिजणगं एयं एत्थं ति दंसियं पुव्वं / तब्भोगमित्तकरणे सेसच्चागा तओ अहिगो // 228 // 5/34