________________
२२
श्रीआगमोद्धारक-स्तवः 'खातारम्भ चरमजिनपस्याह्वया ह्यागमानां,
रक्षागेहस्य च' सुभविकः कारयामासुरत्र ॥८७॥ अन्यत्तत्र 'श्रमणनिकरग्रन्थसंग्राहि सङ्घ,
संस्थाप्यारं शुभ महमदाबादपुर्या' यतीन्द्राः । भक्त श्रीमोहन'इति महच्छेष्ठिना सदव्रतानां,
__रम्ये हृद्यापनविधिमखेऽभ्यर्थ्यमानाः प्रजग्मुः ॥८॥ सिद्ध शास्वरुपकृतिकरं लक्षशो रुप्यकैस्तं, __ सम्पाद्योद्यापनविधिमलं 'झाम्पडापोल'मध्ये ।
(५) (५) (९) (१) तत्रावात्सुः शर-नव-नवै-काश्चितेऽब्देऽब्दकाले,
चाा वीथ्यांसुगुरुचरणाः 'नागजिद् भूधराणाम् ॥८९॥ पश्चादेताः क्षरणसमयं यापयित्वाऽऽगमाना
मागारस्य प्रचलितविधिं वीक्षितुं पालीताणाम्' । साङ्गोपाङ्गं त्रुटिविरहितं सत्यमारब्धकृत्यं,
__ त्यक्त्वा सर्वस्वमपि सततं साधयन्त्येव सन्तः ॥१०॥ कृत्वा लोकोत्तरसुचरितं ये तरन्तीह लोकं,
धन्यास्ते वै सफलजनना भूभराः सन्ति चान्ये । सत्यामेतां भणितीमथ ते कर्त्तकामा यतीन्द्रा
स्तत्रातिष्ठन् 'वरसलिलदाऽऽसेककालत्रयीं ते ॥९॥
१ श्रीवर्धमानजैनागममंदिरस्य खातमुहूर्त्तमिति भावः । २ श्रमणसंघपुस्तकालयाख्यज्ञानालयस्थापनामित्यर्थः । ३ श्रेष्ठिवर्यत्रीमोहनलाल. छोटालाल इति भावः । ४ वृष्टिकाले । ५ पोलवाची अयं शब्दो ज्ञेयः। ६ चातुर्मासमिति भावः । ७ शिलोत्कीर्णागममंदिरस्येत्यर्थः । ८ चातुमाससत्रयमित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com