________________
श्रीआगमोद्धारक-स्तवः स्थाने स्थाने जिनमतमहं वर्द्धयन्तो गणीन्द्रा
स्स्थित्वा वर्षा "नवलनगरे' चारुवाग्भिस्स्वकीयैः । 'सत्रश्चामाम्लगृहमथ चास्थापयन् 'छात्रगेहं,
दान्ताः पूज्यैः धृतिमतिरलात् बालदीक्षाविरुद्धाः ॥६९॥ पश्चादेतास्सुरतनगरे' 'जैनसाहित्यवृद्धि
___ सत्कोशार्थ धनिक नगिनं मछुपुत्र व्यबोधन् । 'मुर्शीदाबादपविजयसिंहस्समेतोऽत्र सुरे
भक्तिव्यक्तीकरणपटुको भावतो दर्शनाय ॥७॥ आसीच्छी देशविरतिसमाजस्य' पर्षत्सुरम्या,
दत्ता तस्यां भविकहितदा देशना सारगर्भा । "रत्नाम्भोधेः'पठनसहनम्थायिकोशं विवर्य.
दृब्धा 'तत्त्वप्रसारणकरी बोधमालाख्यसंस्था' ॥७१॥ प्रवाण्याने कविकजनान् पावयन्त स्सुराष्ट्रान्',
प्रावृट्कालं शुभकृतिभरैस्स्तम्भतीर्थ' व्यतीयुः । विहृत्याहम्मदपुर'मितास्तत्र संस्थाय वर्षा,
श्रुत्वोद्यच्छन् वटपुग्नृपाज्ञां सुदीक्षाविरुद्धाम् ॥७२॥ सरेश्शास्त्राभ्यसनमुदिता जङ्गमज्ञानशाले
त्येवं चाशंसदतिविदुषीजार्मनी क्राउझाख्या' ।
१ जामनगरमित्यर्थः । २ सत्र-भोजनशाला, आचाम्लगृह आंबिलखातुं । ३ बोडि गाख्यविद्यार्थीगृहमिति भावः । ४ निष्फलप्रवृत्तिमन्तः कृता इत्यर्थः । ५ जनसाहित्योदार कफंडमित्यर्थः । ६ नगीनभाई-मंछुभाई श्रेष्ठिनमित्यर्थः । ७ अधिवेशनमित्यर्थः । ८ श्रीरत्नसागरजैनबोर्डिंगस्थायिफंडमिति भावः। ९ वडोदराराज्यदीक्षाप्रतिबन्धककायदार्थपरकमेतत्पदम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com