SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः 'शैलाणाख्य' पुरमथ यतीन्द्रो हि सवाग्रहेण, __ चातुर्मासार्थमुपगमितो धर्ममुढान् प्रबोद्धम् । मत्वा धन्यं नृपतिरपि यच्छास्त्रवाचो निशम्या मायुद्घोषं दयितहृदयस्वीयराज्ये चकार ॥५५॥ पूर्ण शैलाणनृपविषये' 'ह्यष्टमीरुद्रदर्शा ऽऽख्याताहःपर्युषणदिवसे मारीचारं न्यधीत् । प्राच्यं वृत्तं हकबरविबोद्धः स्मृति 'हीरमरे' रानीयायाद्विविधनिगमान् पावयन् "रत्नपुर्याम् ॥५६॥ प्रेमज्ञप्त्या श्रुतवरतपस्सम्यगुद्वाह्य चान्यः पुण्यः कृत्यैजलदसमये भ्राजयित्वा सुधर्मम् । "माण्डूतीर्थ'प्रचलितविधौ बाधकं "धारभूपं,' हस्तक्षेपोन्निरसविधयेऽबोधयत्तत्र गत्वा ॥५७॥ 'माण्डू-भोपावर'लसितसच्चैत्ययोस्स्वोपदेशा ज्जीर्णोद्धारं प्रवरभविकैः कारयित्वा यतीन्द्रः । बोध'पञ्चेडपुरपतये' 'सेमलीठक्कुराय, प्रादात्ताभ्यां निजभुवि ततो मारयो वारिता वै ॥५८॥ वर्षाकाले जिनमतविभां वर्द्धयन् 'रत्नपुर्या, शास्र दे यतिपविजय त्रिस्तुतीयं व्यजैषीत् । सङ्घस्याभ्यर्थनमथ निशम्योपघानं सुवाहा, 'सम्मेतादि ब्रजितुमभिबङ्ग" प्रतस्थे मुनीन्द्रः ॥५९॥ १ अष्टभ्यामेकादश्याममावास्यायां पर्युषणासु चेत्यर्थः । २ रतलामनगरे । ३ मांडवगढार्थपरकमिदं पदम् । ४ धारसंस्थानाधीशमिति भावः। ५ उत्कर्षण निरसनार्थमित्यर्थः । ६ हिंसाः । ७ श्रीयतीन्द्रविजयामितिभावः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy