________________
श्रीआगमोद्धारक स्तवः
(१) (३) (९) (१) ऊर्वीब्रह्मग्रहशशधराब्दे सदाषाढमासे,
'दर्शाख्याहे 'विदितमहसः धुर्यस्वप्नात् सुतस्य । सच्चन्द्रार्कज्ञभृगुसहिते कर्कलग्ने सुरम्ये,
जातस्याधुः मुदितपितरो 'हेमचन्द्रे'ति संज्ञाम् ॥ १५ ॥ यो वै बाल्ये धृतिमतियुतः मार्गदीपस्य भङ्गे
नाभिव्येजे पुलिससविधे छद्मतां सत्यनिष्ठः । धर्माभ्यास व्यवहृतिकलां द्राग् समभ्यस्य चित्र,
वाचां पत्युः सुमतिलघुता स्वीयबुद्धया हिव्येजे ॥१६॥ जैनाबारे स्वपितुरनिशं प्रेरणालब्धनिष्ठ
स्तत्वज्ञानाद् विमलमनसा भोगवेगुण्यमानी। आत्मोन्नत्यै प्रगुणमतिकः मोहभूपं जिगीषुः ___सच्चारित्रग्रहणपरतां व्येज उद्वाहकाले ॥१७॥ किन्तु प्रेम्णा परवशधियां 'बन्धूनां विघ्नरूपा
सन्निर्बन्धाचरणमलनाच्छन्दतस्स्निग्धमातुः । मन्वानो वै परिणयविधि चारकापत्तिरुपां, ___'माणेका'ख्यां कुलजसुकनी पर्यणषीद्विचेताः ।। १८ ॥
___३ पूज्यवर्याणां जन्मकुण्डलिकेयम् । १ अमावास्यायामित्यर्थः । २ वृषभस्वप्नादिति भावः। ४ 'म्युनिसिपालिटीफानस'
के. शु.बुसू इत्यर्थपरकोऽयं शब्दः । ५ र ७ गु. X विघ्नभूतादसदाग्रहादित्यर्थः
१० श. K ६ चारित्रस्यान्तरायभूतादित्यर्थः, एतद्धि'छंदतः' पदविशेषणं झेयम् । ७ कारागारग्रसनरूपामित्यर्थः । ८ विमनस्क इत्यर्थः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
अगमोद्धारकश्रीणां जन्मकुण्डली