________________
श्रीआगमोद्धारक-स्तवः 'धर्मज्ञप्तौ सुविशदमतेलब्धतत्त्वप्रतिष्ठं,
सर्वोत्कृष्टं 'कपटवणज' राजते पूर्गरिष्ठम् ॥५॥ यत्रोत्तुङ्ग नवजिनगृहं 'पावनाधादि'मुख्यं,
यद्वास्तव्याः बहुभवभयाः दीक्षिताः नैकभव्याः । पट्टावल्या "अभयमुनिप'-स्वर्गभूमिः सुगीता,
____ वाणिज्याख्यं 'कपडसहितं तन्नु वयेत केन ? ॥६॥ तस्योत्तंसे कलिमलहरे वर्य'दालालपाटे,'
'मीठाभ्रातुः' भवभयमथोपाश्रयस्योपकण्ठम् । ख्यातं रम्यं ननिततिहरं 'वासुपूज्य'स्य चैत्यं
तत्सान्निध्ये विहितकुशलः 'भाइचन्दो'ह्यवात्सीत् ॥७॥ तस्यासीद्वै सुकतरुचिरा सुज्ञ मञ्छा'ख्यपत्नी,
शीलोदात्ता सुगुणसदना धर्मतत्त्वे प्रवीणा । धर्माबाधं समनुभवतोः पुण्यसारं तयोर्वे,
'ताराचन्द्रा'नुज'मगनलाला'ख्यपुत्रो बभूव "यः पूर्वाराधितसुचरणज्ञानवैराग्यसारात्,
"सारुप्याप्तेर्वर 'धनगिरेः' कालवैषम्यवारी । शास्त्राभ्यासाद् तनुभवरतिस्सा धुभावस्पृहालु
'वज्रस्वामे'जनक इव यो जातरा गाल्पभावः ॥९॥
१ धर्मावबोधे। २ नवाङ्गीवृत्तिकारश्रीअभयदेवसूरीश्वरस्येत्यर्थः । ३ शुभानुबन्धि सुखमित्यर्थः। ४ पूर्वजन्मन्याराधितानां सच्चरणज्ञानवैराग्यानां सारभूतान्निर्विकारभावादित्यर्थः । ५ श्रीवज्रस्वामिपितुः धनगिरिमहर्षे ग्रहस्थावस्थायां यादृशी मनोदशाऽऽसीत्तादृशीं शुभां परिणति समधिगम्य तत्सादृश्यवता येन मग्नलालेन चरित्रनायकजनकेनाज्ञप्रमादिजनयुक्तिच्छलरुपकालविषमताया असारत्वं प्रथितमिति द्वितीयपादरहस्यम् । ६ मोहजन्यासक्तिसूचकमिदं पदम् । ७ वेदोदयसूचकमिदं पदम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
॥
८
॥