SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ४८ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. किं चाधिकारभेदेन भवेन्मार्गविरोधिता । स्थानभेदाद्यतो लोके विरोधो दृश्यतेऽध्वनाम् ॥ २० ॥ यथा काशी जिगमिषुर्गयास्थो यदि पृच्छति। तत्रत्यास्ते ब्रुवन्त्येनं व्रज त्वं पश्चिम दिशम् ॥ २१ ॥ अथ प्रयागदेशीयः काशीगमनकाम्यया । पृच्छञ्जनांस्तु तत्रत्यैः प्राची याहीति चोच्यते॥२२॥ प्राचीपश्चिमगामित्वं विरुद्धमपि सर्वथा । भिन्नदेशस्थितेर्हेतोः फलमेकं प्रयच्छति ॥ २३ ॥ तथैवातlसदसत्कर्मणां परिपाकतः । नृभ्यो भिन्नाधिकारेभ्यो नैकोऽध्वा प्रदिशेत्फलम॥२४॥ इति संचिन्त्य भगवान् करुणावरुणालयः । मार्गान्नानाविधांश्चक्रे यैः सर्वे श्रेय आप्नयुः ॥ २५ ॥ तथा हि सर्वशास्त्रेषु साङ्ख्यकाणादकादिषु। . तथैव वैष्णवाद्येषूपासामार्गेषु सर्वशः ॥२६॥ पराकृतस्वदोषेषु बहुयुक्तिनिरूपणैः । काणादं मन्वते केचित्केचित्साङ्ख्यादिकान्यपि॥२७॥ केचित्त वैष्णवं मार्गमन्ये शैवादिकांस्तथा । पुंसां भिन्नाधिकारित्वस्याभिव्यञ्जकमस्त्यदः ॥ २८ ॥ किं च यस्माज्जगन्नाथश्चकेमार्गान्पृथग्विधान् । भिन्नाधिकाराः पुरुषा इत्यस्मादपि निश्चितम् ॥ २९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy