________________
अध्यायः ६ पू.]
अध्यायः
शास्त्रतत्त्वविनिर्णयः
शास्त्रानुगैवोपपत्तिर्नोपपत्त्यनुगं हि तत् । इति यत्प्रागिह प्रोक्तं तच्च ध्येयं क्षणे क्षणे ॥ ३० ॥ यस्मिन् यस्य भवेन्मार्गे रुचिः शास्त्रेण बोधिते। तस्मिंस्तस्याधिकारोऽस्तीत्यधिकारस्य बोधकम् ॥ ३१॥ इदं च पश्यतेशस्य सामर्थ्य यदसौ जनः ।। विरोधिष्वपि शास्त्रेषु स्वाधिकारानुसारतः ॥ ३२ ॥ एकं निश्चित्य गृह्णाति न तु मोहं प्रपद्यते । एतेन मोहकृच्छास्त्रं नैशमित्यपि खण्डितम् ॥ ३३ ॥ तस्माच्छास्त्रीयमार्गाणां विरोधोऽपि न दोषभाक् । फलं चैकं प्रयच्छन्ति दृष्टान्तं तत्र तं स्मर ॥ ३४ ॥ अत आज्ञास्वरूपाणि शास्त्राणि परमेशितुः । आदिशन्ति बहून्मार्गान्दोषवन्ति न कहिचित् ॥ ३५ ॥ तथैव वैष्णवादीनां मार्गाणां च निदर्शने । तस्य तम्यैव माहात्म्यवर्णनं च न दुष्यति ॥ ३६॥ तथा ह्येकं परेशानं नानोपाध्युपलक्षणैः । बहुधोपदिशन्ति स्म तत्तद्रुच्यनुसारतः ॥ ३७॥ न चाप्युपाधिसंबन्धो भवेदीशस्य तावता । दुर्ज्ञाने मन्दधीगत्यै तस्य शास्त्रैरुदीरणात् ॥ ३८ ॥ ननु चोपाधिसंबन्धो यद्यलीको भवेत्तदा । असत्याशंसिना भाव्यं कथमैशेन तद्वद ॥ ३९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com