SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. उच्यते- 11 8 • 11 दृष्टा किलेयं शिष्टानां रीतिः सूक्ष्मार्थबुद्धये । असत्संबन्धकथनं शाखाचन्द्रमसोरिव ईशो हि सर्वशिष्टानामाद्यो रीतिप्रवर्तकः । दयावान्मन्दबुद्धीनां स्वस्याप्त्यै तदकल्पयत् ॥ ४१ ॥ किं त्वेक एव मार्गेषु मार्गः साक्षात्फलप्रदः । स एव सेव्यते सर्वैर्जनैः शुद्धाधिकारिभिः ॥ ४२ ॥ तद्द्द्वारा प्रापकाश्चान्ये मता मन्दाधिकारिणाम् । तत्त्वं तु विरलास्तस्य श्रद्दधाना जना विदुः ॥ ४३ ॥ यथा प्रयागनिलयः क्षिप्रं प्राप्नोति काशिकाम् । चित्रकूटनिवासानां प्रयागद्वारिका गतिः ॥ ४४॥ नन्वेवं मार्गभेदेऽपि न वस्तुनि विकल्पना । भवेत्तर्हि पुराणेषु कथाभेदः कथं स्थितः ॥ ४५ ॥ उच्यते— कृतैव कल्पभेदेन कथाभेदव्यवस्थितिः । इतोऽन्यदुत्तरं यत्स्याद्भवतैव तदुच्यताम् ॥ ४६॥ पौराणिकानामज्ञानान्न युक्ता तस्य कल्पना । परस्परपुराणार्थान् सर्वे जानन्ति ते यतः ॥ ४७॥ सर्वेष्वपि पुराणेषु सर्वेषां नामदर्शनात् । एककालोद्भवस्तेषां कर्तुर्ज्ञानं च तर्क्यते ॥ ४८ ॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy