________________
अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः
न हि जानन्विरुद्धार्थ वक्तुमीहेत कहिचित् । स्वार्थाप्रचारणाद्विभ्यत् किं पश्यन्गर्त आपतेत् ॥४९॥ न वा मताभिमानस्य युज्यते तत्र हेतुता । असंभवदहंकारा भिद्यन्ते हि कथा अपि ॥ ५० ॥ रामात्वचिल्लक्ष्मणाच्च मृतिः कुम्भश्रुतेः श्रुता। कथं स्यादभिमानोऽत्र को वार्थः कस्य हीयते॥५१॥ किं च द्वयोर्विवदतोरभिमानो भवेदपि । ऋग्वेदे पुनरेकस्यामृचि प्रोक्तं कथाद्वयम् ॥ ५२ ॥ अदितेर्दक्षजन्यत्वं दक्षस्यादितिजन्यता । अर्थेऽपि चैकर्मुक्तेऽस्मिन्नभिमानः कथं भवेत् ॥५३॥ एकस्मिन्नेव च ग्रन्थे कचिदर्थद्वये क्षणात् । न विरोधेऽस्ति तात्पर्यमिति किं नावबुध्यते ॥ ५४ ॥ नन्वेकस्य स्तुतावन्यनिन्दा या परिदृश्यते । दोष आभाति सोऽस्माकमिति चेदुच्यते शृणु ॥ ५५ ॥ अहो ते कुशला बुद्धिरिति क्रोधपुरस्सरम् । वचो न भजति स्वार्थं किं तु गर्दापरं हि तत् ॥ ५६ ॥ तस्मान्नैवप्रतीतार्थः सर्वत्र परिगृह्यते । लोकेऽपि व्यवहारोऽसौ का तु शास्त्रे विचारणा ॥५७॥ किं तु लौकिकवाक्यस्य सुलभोऽस्त्याशयग्रहः । गम्भीरस्य तु शास्त्रस्य न्यायसाहाय्यतोभवेत् ॥ ५८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com