SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. तथा च न हि निन्दाख्यन्यायस्य परिशीलनात् । तस्य शास्त्रस्यखल्वेवमभिप्रायः प्रतीयते ॥ ५९ ॥ अन्येषामवमत्वोक्तिं विना स्तुत्यप्रशंसनम् । निरङ्कुशं न हि भवेदिति स्तुतिपरं हि तत् ॥ ६ ॥ अत एव हि सर्वत्र श्रुतेः प्रामाण्यमुच्यते । कचिदन्यप्रशंसायां गुणवाद इतीर्यते ॥ ६१ ॥ तथैव गङ्गास्नानादेर्यात्रामूर्त्यर्चनादिनः । उक्तेऽपि पुण्यहेतुत्वे निषेधो यः क्वचिस्थितः ॥ ६२ ॥ तस्यापि खलु तात्पर्य विदुस्तात्पर्यवेदिनः । चित्तशुद्धिमनोदान्तीश्वरज्ञानादिसंस्तवे ॥६३ ॥ तथा हि सूक्ष्मबुद्ध्यैतच्छद्धया च विचार्यताम्। न खल्वाकस्मिकी निन्दा मूर्त्यर्चादेः कृता कचित् ॥६४॥ किं तु हच्छोधनादीनां प्रस्तावेष्वेव दृश्यते । न चाभिमानमूलत्वशङ्कायाश्चात्र संभवः ॥ ६५ ॥ एषैव रीतिरन्यासां निन्दानामपि दृश्यते । तस्माद्विरोधे तात्पर्य न तासां किं तु तत्स्तुतौ ॥ ६६ ॥ एकस्मिन्नेव च ग्रन्थे मिथो न्यूनत्वदर्शनात्। न विरोधेऽस्ति तात्पर्यमिति किं नावबुध्यते ॥ ६७ ॥ एवं विष्ण्ववताराणां शाक्तत्वं प्रोच्यते क्वचित् । तं च शक्तिप्रशंसार्थमर्थवादं प्रचक्षते ॥ ६८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy